________________ प्रमुनिर्वाणः श्री कल्पमुक्तावल्या // 29 // अत्र // कवि // अन्यैजिनैरिव विभो न च मुक्तिमन्यः-प्राप त्वया सममहो मुनि रत्र कश्चित् / / तेन त्वया प्रकटिताऽस्ति किलानपेक्षा, काले च दुष्पमभवे वतिनां गुरो वै // 1 // षष्टेन भक्तेन जलरहितेन स्वातिनक्षत्रेण सह चन्द्रयोगउपागते सति प्रत्यूषकालसमये अर्थात् चतुर्घटिकावशेषायां रात्रौ सपल्यङ्कासननिषष्णः पद्मासननिविष्टः पञ्चपञ्चाशदध्ययनानि कल्याण पुण्यं तस्य फलविपाको येषु तानि कल्याणफलविपाकानि पश्चपञ्चाशदध्ययनानि पापफलविपाकानि पत्रिंशत् अपृष्टव्याकरणानि अपृष्टानि उत्तराणि व्याकृत्य कथयित्वा प्रधानं नाम एकं मरुदेव्यध्ययनं विभावयन् विभावयन् भगवान् कालगतः संसाराद् व्यतिक्रान्तः सम्यगूज़ यातः छिन्नजातिजरामरणबन्धनः जातिजराजन्ममरणबन्धनरहितः सन् तथा सिद्धः बुद्धः मुक्तः कर्मान्तकृत् सर्वसन्तापरहितः सर्वदुःखप्रक्षीणः॥१४७।। अथ भगवतो निर्वाणकालस्य पुस्तकलिखनादिकालस्य च // अन्तरमाह // मृ-पा-समणस्स भगवओ महावीरस्स जाव सव्वदुक्खप्पहीणस्स नव वाससयाई विइकंताई दशमस्स य वाससयस्स अयं असी इमे संवच्छरे काले गच्छइ / वायणतरे पुण अयं ते उणए संवच्छरे काले गच्छइ इति दीसइ // 148 // व्याख्या-श्रमणस्य भगवतो महावीरस्य. यावत्सर्वदुःखप्रक्षीणस्य नववर्षशतानि व्यतिक्रान्तानि दशमस्य च वर्षशतस्य अयं अशीतितमः सम्वत्सरः कालो गच्छति यद्यप्येतस्य सूत्रस्य, भावार्थो न प्रतीयते / पूर्व टीकाकरै यद्धि, प्रोक्तं तच्च विविच्यते // 1 // // 29 //