________________ श्रीकल्पमुक्तावल्यां प्रभुचरित्र वर्णनम् // 29 // येषान्ते तेषां स्थितिकल्याणानां वीतरागप्रायत्वात-अतएव, आगमिष्यद्भद्राणां-आगामिभवे भद्रं कल्याणं येषान्ते तथा-सेत्स्यमानत्वात्-उत्कृष्टा एतावती अनुत्तरोपपातिकानां सम्पदा अभवत् // 145 / / मू-पा-समणस्स णं भगवओ महावीरस्स दुविहा अंतगडभूमी हुत्था-तं जहा-जुगंतगडभूमी परियायंतगडभूमी य। जाव तच्चाओ पुरिसजुगाओ जुगंतगडभूमी-चउवास परियाए अंतमकासी // 146 // व्याख्या-श्रमणस्य भगवतो महावीरस्य द्विविधा अन्तकृदभूमिः अभवत् तत्र संसारस्य अन्तं समाप्ति कुर्वन्ति इति- अन्तकृतः मोक्षगामिनः तेषां भूमिः कालः इति अन्तकृद्भूमिव्याख्या-तदेव द्विविधत्वं दर्शयति -तद्यथा युगान्तकृभूमिः-पर्यायान्तकृभूमिश्चकालमानविशेषादि, वाचको युगशब्दकः, तत्साधाच्च सम्बन्ध, क्रमेण द्योतयत्यसौ // 1 // गुरूशिष्यप्रशिष्यादि, रूपका ये च पूरुषाः, युगानि तेऽपि कथ्यन्ते, तन्मिताभूयुगान्तकृत् // 2 // प्रभुकालात्समारभ्य, श्री जम्बूस्वामिनोऽवधि, आसीन्मोक्षश्च सा चैषा, पर्यायान्तकभूमिका // 3 // तत्र प्रथमां दर्शयति-यावत्-तृतीयं पुरुषयुगम्. इति युगान्तकृद्भूमिः अत्र. पुरुष एव युगम् इति पुरुषयुग-इति विग्रहेण जम्बूस्वामिनं यावत् तथा-चतुर्वर्षपर्याये अन्तम् अकार्षीत्-अर्थात्-ज्ञानोत्पत्यनन्तरम् कश्चित्केवली. मोक्षमगादिति // // भूयोऽपि मुक्तिकालं स्फुटयति // श्रीवीरज्ञानतः पश्चाच्चतुर्वर्षेषु सन्ततम् / वहमानश्च मोक्षाध्वा, जम्बूस्वामिनि संस्थितः॥१॥ इति भावः॥१४६॥ // 29 //