________________ श्रीकल्पमुक्तावल्यां प्रभु निर्वाणम् // 285 // व्याख्या-यतः प्रभृति सः क्षुद्रात्मा भस्मराशिनामा महाग्रहः द्विवर्षसहस्र स्थितिः श्रमणस्य भगवतो महावीरस्य जन्मनक्षत्रं सङ्कान्तः ततः प्रभृति श्रमणानां तपस्विनाम् निर्ग्रन्थानां साधूनां निर्ग्रन्थीनां साध्वीना श्च उदितोदितः उत्तरोत्तरं वृद्धिमान् ईदृशः पूजा वन्दनादिका सत्कारो वस्त्रदानादि बहुमानः स न प्रवर्तते // शक्रं स्ततः स्वामिपुरश्चकार, विज्ञप्तिमेतां क्षणमायुराः , सम्वर्द्धयध्वं बत जन्म ऋक्षं, संकान्त एष ग्रहभस्मराशिः॥१॥ जीवत्सु पूज्येषु च शासनम्बो, दुष्टग्रहः पीडयितुं क्षमो न, प्रोवाच बीरोऽपिच देवराज ?, एतत्कदाऽभूनच भूतपूर्वम् / 2 / प्रक्षीणायु जिनपै रपीह, नो शक्यते वर्द्धयितु कदाचित् , चावश्यमेवेह च तीर्थवाधा, दैवेन देवेश! भविष्यतीति // 3 // किश्च त्वया कल्किनि दुष्टभूपे, षड्दन्तिवर्षे विगते गृहीते, पूर्णे तथा वर्षयुगेर सहवे, मजन्मऋक्षाद्विगते च भस्मे // 4 // - त्वत्स्थापितात्कल्किसुतात् सुराज्यात, धर्माप्रदत्ताच ततो घरण्याम्, पूजाप्रतिष्ठे भवतो मुनीनां, निग्रन्थिकानामपि भक्तिभावात् // 5 // // 130 // // सूत्रकारा अपि तदेवाहुः // . मू.पा.-जयाणं से खुदाए जाव जन्मनक्खत्ताओ विइकंते भविस्सइ, तया णं समणाणं निग्गंथाणं निग्गंथीण य उदिए उदिए पूयासकारे भविस्सइ // 131 // व्याख्या-यदा च क्षुद्रात्मा भस्मराशिर्महाग्रहः द्विवर्षसहनस्थितिकः यावत् भगवजन्मनक्षत्राद् व्यतिक्रान्तो भविष्यति उत्तरिष्यतीत्यर्थः तदा श्रमणानां निग्रन्थानाम् निर्ग्रन्थीनाम् उदितोदितः पूजासत्कारो भविष्यति॥१३॥ | 1 द्वये 2 भस्मराशिनामगृहे / // 285 //