________________ गणधरवादः श्रीकल्पमुक्तावल्या // 283 / / गकम् संसारसागरतारकम् पौषधोपवासं कृतवन्तः अर्थात् आहारत्याग पौषधरूपं उपवासं चक्ररित्यर्थः अन्यथा दीपकरणं न सम्भवति. ततश्च / अष्टादशराजभिर्विचारितम् गतः स भावोद्योतः श्री महावीरे निर्वाणगते सति अतः द्रव्योद्योतं करिष्यामः इति बिचार्य तै भूपैः द्रव्योद्योताय दीपाः प्रवर्तिताः ततः प्रभृति दीपोत्सवः संवृत्तः॥ पक्षे सिते कार्तिकमासकस्य, श्री गौतमस्य प्रतिपत्तियौ सः। देवश्च चक्रे महिमा ततः का-वद्यापि लोकैःक्रियते प्रमोदः॥१॥ नन्दिवर्धनभूपालो, धार्मिको जिनपादगः / वीरनिर्वाणमाकर्ण्य, शोकातॊऽजनि निर्भरम् // 2 // आसीत्सुदर्शना तस्य, भगिनी ज्ञानशालिनी / शोकात तश्च सम्बोध्य, सादरं निजवेश्मनि // 3 // भोजित स्तदिनादेव, द्वितीया भ्रातृसंज्ञका / जाता लोके च याऽद्यापि, पर्वरूपेण भाषते // 4 // मू-पा-जं रयणि च णं समणे भगवं महाबीरे कालगए, जाव सव्वदुःखप्रक्षीणे,तं रयणि चणं खुदाए भासरासीनाममहग्गहे दोवाससहस्सहिई समणस्स भगवओ महावीरस्स जन्मनक्खतं संकंते // 129 व्याख्या - यस्यां रजन्यां श्रमणो भगवान् महावीरः कालगतः यावत् सर्वदुःखप्रक्षीणः तस्यां रजन्यां क्षुद्रात्मा क्रूरस्वभावःएवम्बिधो भस्मराशिनामा त्रिंशत्तमो महाग्रहः कीदृशः द्विसहस्रवर्षस्थितिकः एकस्मिन् नक्षत्रे एतावन्तं कालं अवस्थानात श्रमणस्य भगवतो महावीरस्य जन्मनक्षत्रं उत्तराफाल्गुनीनक्षत्र सङ्कान्तः तत्राटाशीतिहा स्ते चेमे // // 28 //