SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुक्तावल्यां // 278 // सर्वदुःखानाम् परिनिवृतः- सर्वसन्तापाभावाद-तथा च कीदृशो जातः- सर्वदुःखप्रहीणः शारीरिकमानसिक FIगणधरवादः सम्बन्धि सर्वदुःखरहित इति // अथ भगवतो निर्वाणवर्षादीनां सैद्धान्तिकनामान्याह / / अथ यत्र भगवान् निवृतः स चन्द्रनामा द्वितीयः सम्वत्सरः प्रीतिवर्द्धन इति तस्य मासस्य कार्तिकस्य नाम नंदिवर्द्धन इति तस्य पक्षस्य नाम-अग्निवेश्य इति तस्य दिवसस्य नाम उपशम इति प्रोच्यते-उपशम इति तस्य द्वितीय नामेत्यर्थः // तथा देवानन्दा नाम्नी सा अमावास्या रजनी निरतिः- इत्यप्युच्यते, नामान्तरेण अर्चनामा लवः- मुहूर्तनामा प्राणः सिद्धनामा स्तोकः नागनामकं करणं / इदं च शकुन्यादिस्थिरकरणचतुष्टये तृतीयं करणं अमावास्योत्तरार्द्ध हि एतदेव भवतीति तथा सर्वार्थसिद्धनामामुहूर्तः-स्वातिनामनक्षत्रेण चन्द्रयागे उपागते सति भगवान्-कालगतः यावत् सर्वदुःखप्रक्षीणः // अथ सम्वत्सरमासदिनरात्रिमुहूर्तनामानि चैवं सूर्यप्रज्ञप्तौ तथाहि-एकस्मिन्-युगे-पञ्च सम्वत्सराः तेषां नामानि चन्द्रः 1 चन्द्रः 2 अभिवद्धितः 3 चन्द्रः 4 अभिवद्धितः-५ // इति सम्वत्सरनामानि / अभिनन्दनः१ सुप्रतिष्ठः 2 विजयः३ प्रीतिवद्धन: 4 श्रेयान् 5 शिशिरः 6 शोभन: 7 हैमवान् 8 वसन्तः९ कुसुमसभ्भवः 10 निदाघः११ वनविरोधी 12 इति श्रावणादि द्वादशनामानि-॥ पूर्वाङ्गसिद्ध 1 मनोरम 2 मनोहर 3 यशोभद्र 4 यशोधर 5 सर्वकामसमृद्ध 6 इन्द्र 7 मूर्धाभिषिक्त 8 सौमनस 9 धनञ्जय 10 अर्थसिद्ध 11 अभिजित 12 रत्याशन 13 शतञ्जय 14 अग्निवेश्य 15 इति पञ्चदशदिननामानि // उत्तमा 1 सुनक्षत्रा 2 इलापत्या 3 यशोधरा 4 सौमनसी 5 श्री सम्भूता 6 विजया 7 वैजयन्ती 8 जयन्ती 9 // 278 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy