________________ श्रीकल्पमुक्तावल्या 1977 मालिनीवृत्तः-जगति विदितनाम्नी पूर्वमासीदपापा, त्रिभुवनपतिवीरस्तत्र पश्चत्वमाप / गणधरवादः तदनु विरहिदेव नाम तस्याश्च पापा-कृतमिह हतभाग्या प्राप पापाऽभिधानम् // 1 // प्रभोः छद्यस्थवेलायां, केवलिसमये तथा / चातुर्मासानि जातानि, नेत्रवेन्दमितानि वै // 5 // मूलपाठः-तस्स णं जे से पावाए मज्झिमाए हत्थिवालस्स रण्णो रज्जुगसभाए अपच्छिमं अन्तरावासंवासावासं उवागए।॥१२३।। व्याख्या-तत्रयस्मिन् वर्षे पापायांमध्यमायां हस्तिपालस्य राज्ञः लेखशालायाम् अन्त्यं चातुर्मासकं वर्षावासार्थ उपागतः।१२३ / / मूलपाठः-तस्स णं अंतरावासस्स जे से वासाणं चउत्थे मासे सत्तमे पक्खे-कत्तियबहुले तस्स णं कत्तियबहुलस्स पण्णरसीपक्खेणं जा सा चरमा रयणी तं रयणिं च णं समणे भावं महावीरे कालगए. विइक्कंते समुज्जाए छिन्नजाइ जरामरणबंधणे--सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुडे सव्वदुक्खप्पहीणे चंदे नाम से दोच्चे संवच्छरे पीइवद्धणे मासे नंदिवद्धणे पक्खे अग्गिवेसे नाम दिवसे उवसमित्ति पवुच्चइ, देवानंदा नाम सा रयणी निरतित्ति पवुच्चइ अच्चेलवे मुहत्ते पाणू थोवे सिद्ध नागे करणे सव्वट्ठसिद्धे मुहुत्ते साइणा नक्खत्तेण जोगमुवागएणं कालगए जाव-सव्वदुक्खप्पहीणे // 124 // व्याख्या-तस्य चतुर्मासकस्य मध्ये योऽसौ वर्षाकालस्य चतुर्थमासः सप्तमः पक्षः कार्तिकस्य कृष्णपक्षः तस्य कार्तिककृष्णपक्षस्य पञ्चदशे दिवसे या सा चरमा रजनी तस्यां रजन्याश्च श्रमणो भगवान् महावीरः कालगतः ? कायस्थितिभवस्थितिकालाद्गतः, संसाराद् व्यतिक्रान्तः समुद्यातः- सम्यक्-अपुनरावृत्त्या ऊर्ध्व यात:- छिन्नजातिजरामरणबन्धनः सिद्धः साधितार्थः बुद्धः तत्त्वार्थज्ञानवान् मुक्तो भवोपग्राहिकर्मभ्यः-अन्तकृत्