________________ गणधरवादः श्रीकल्पमुक्तावा 274 // तथा--ब्रह्मणी वेदितव्ये परमपरश्च तत्र परं सत्यं ज्ञानं अनन्तरं ब्रह्मति इत्यादिवेदवाक्यैश्च, मोक्षसत्ता प्रतीयते, विरोधेनेति ते चित्ते, संशयो वर्तते महान् // 139 // अयोग्यः किन्तु सन्देहो, यथार्थानभिलोकनात् , अग्निहोत्र-जरामर्य, मस्याथै शृणु तत्त्वतः // 14 // अप्यर्थे चात्र वा शब्दो, भिन्नक्रमोऽस्य विद्यते, स्फुटार्थ एवमस्यास्ति, संशयाद्रिमहाशनिः // 141 // स्वर्गाद्यर्थी च चेकश्चि-द्यावज्जीवश्च निर्भरम् , अग्निहोत्रम्प्रकुर्याच्च, स्वर्गसौख्यप्रदायकम् // 142 / / निर्वाणार्थी च चेत्कश्चि-विहाय चाग्निहोत्रकम् , निर्वाणसाधकं कुर्याद, नुष्ठानमहर्निशम् // 143 // नियमेनानिहोत्रश्च, कुर्यादर्थों नघेदृशः, स्वर्गनिर्वाण बोध्यत्र, त्वपि शब्दो हि विद्यते // 144 // तस्मादस्तीति निर्वाणं, परमानन्ददायकम् , ततः सेव्यं सदा सेव्यं, निर्वागमतिपावनम् // 145 // सन्देहशैलपविकल्पगिरं निशम्य, सिद्धार्थभूपकुलपद्मदिवाकरस्य, वीरस्य चैष मुदितः श्रुतिसारवेदि, सत्राऽऽददेऽति विमलां विनयैः सुदीक्षाम् // 146 // इत्येकादशो गणधरः सत्यार्थवेदवाक्येन, बोधितास्ते जिनेश्वरैः, मुदमापुर्भशश्चित्ते, भिन्नसन्देहबन्धनाः // 147 // एते गौतम गौत्रीया, इन्द्रभूतिमुखा द्विजाः, एकादशा महाप्रज्ञाः, प्रभासान्तिमभूषिताः॥१४८॥ वेदवेदशतैः शिष्यैः, पठित विनयाश्चितैः, प्रबजिता जिनान्ते ते, भावेन गुणग्राहिणः // 149 // ||274