________________ श्रीकल्पमुक्ताबा बा२५० प्रभु केबल शानाधिकारः र भुलं कडं पडिसेवियं आवोकामं रहोकम्म, अरहा, अरहस्सभागी, तं तं कालं मणवयकायजोगे वहमाणाणं सव्वलोए सचजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ // 121 // व्याख्या-ततो ज्ञानोत्पत्त्यन्तरं श्रमणो भगवान् महावीरः अर्हन् जातः अशोकादि प्रातिहार्य पूज्ययोग्यों जातः पुनः कीदृशः जिनो जयतीति जिनः इतिव्युत्पत्त्या रागद्वेषजेता, अतः केवली ततः सर्वज्ञः अतएव सर्वदर्शी, सदेवमनुजासुरस्थ, लोकस्य पयार्यम् इत्यत्र जातावेकवचनम् किश्च समस्तपर्यायान जानाति ततः पश्यति साक्षात्करोति तर्हि किं देवमनुजासुराणामेव पर्यायमात्रं जनाति नान्येषामित्याह सर्वलोके सर्व जीवानाम् आगतिम् भवान्तरात् गतिश्च भवांतरे स्थिति तद्भवसत्कम् आयुः कायस्थितिम्बा, तथा च्यवनम् देवलोकात् तिर्यग् नरेषु अवतरणम् उपपातो देवलोके नरकेषु वा. उत्पत्तिः, तेषां सर्वजीवानाम् सम्बन्धि यन्मनः मानसिकम् (मनसि चिन्तितम् मुक्तम् अशनफलादि कृतम् 'चोर्यादि प्रतिसेवितम् मैथुनादि आविः कर्म, (प्रकटीकृतम्, रहःकर्म गुप्तम् कृतम् एतस्सर्व कृतकर्तव्यम् सर्वजीवानाम् भगवान् जानातीति योजना पुनः कीदृशः प्रभुः अरहाः न विद्यतें रहः प्रच्छन्नं यस्येति त्रिभुवनम् करामलकवत् दर्शनात् साक्षात्करणात् तथा अरहस्यभागी न चैकान्तभागी किश्च जघन्यतोऽपि कोटीसुरसेव्यत्वात् तथा तस्मिन् तस्मिन् काले मनवचनकाययोगेषु यथाई वर्तमानानाम् सर्वलोके सर्वजीवानाम् सर्वभावान् पर्यायान् जानन् पश्यंश्च विहरति सर्वजीवानामित्यत्र अकारप्रश्लेषात् सर्वेषाम् अजीवानाम् धर्मास्तिकायादीनामपि सर्वपर्यायान् जानन् पश्यंश्च विहरतीति बोध्यम् इति व्याख्या // 121 // // 250 //