________________ गणघरवाद: श्रीकलामुक्कावल्या // 24 // दिनं १५०-१५-ततश्चेदं जातम् // द्वादशैव च वर्षाणि मासाः षडेव अर्धमासश्च वीरवरस्य भगवतः एष छद्मस्थपर्यायः // 1 // इदं च सर्व तपो भगवता निर्जलमेव कृतम् न कदापि च नित्यभक्तं चतुर्थभक्तश्च कृतं एवञ्च त्रयोदशस्य सम्वत्सरस्य अन्तरा ( मध्ये ) वर्तमानस्ययोऽसौ ग्रीष्मकालस्य द्वितीयो मासः चतुर्थः पक्षः वैशाखशुक्लपक्षः तस्य वैशाखशुद्धस्य दशमीदिवसे पूर्वगामिन्यां छायायां सत्याम् अर्थात् कीदृशायां प्रमाणप्राप्तायां नतु न्यूनायाम् अधिकायाम्बा सुव्रतनामके दिवसे विजयनाम्नि मुहूर्ते जृम्भिकग्रामनायकस्य नगरस्य बहिस्तात् ऋजुवालुकायाः नद्याः तीरे व्यावृत्तचैत्यस्य जीर्णव्यन्तरायतनस्य अदूरसमीपे नातिदुरे तथा नातिसमीपे श्यामाकस्य गृहपतेः (कस्यचित्कौटुम्बिकस्य) क्षेत्र शालपादपस्य, अधो, गोदोहिकया, उत्कटिकया, निषद्यया आतापनया आतापयतः प्रभोः षष्ठेन भक्तेन जलरहितेन उत्तराफल्गुनीनक्षत्रे चन्द्रेण योगं उपागते सति ध्यानस्य अन्तरे मध्यभागे वर्तमानस्य कोऽर्थः तत्र शुक्लध्यानम् चतुर्धा पृथक्त्ववितर्क सविचारम् 1 एकत्ववितर्क अविचारम् 2 सूक्ष्मक्रियं अप्रतिपाति 3 उच्छिन्नक्रियं अनिवर्ति 4 एतेषां मध्ये आधभेदद्वये ध्याते अनन्तवस्तु विषये अनुपमे निर्व्याघाते भित्यादिभिरस्खलिते, समस्तावरणरहिते समस्ते सर्वावयवोपपेते, एवम्भूते, केवलवरज्ञानदर्शने समुत्पन्ने // 120 // मूलपाठ:--तए णं समणे भगवं महावीरे अरहा जाए जिणे केवली सवण्णू सव्वदरिसी सदेवमणुयाऽसुरस्स लोगस्स परियायं जाणइ पासइ सव्वलोए सम्बजीवाणं आगई गई ठिई, चवणं उववायं तक मणो, माणसियं, // 249 //