SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ प्रभुचारित्र श्रीकल्पमुक्तावल्यां // 245 // निर्भया पुन: खङ्गिविषाणमिक एकजाती यथा खनिजामपशोः शृङ्गम् एकं भवति तथा भगवानपि रागादिना सहायेन च रहितत्वात पुनः विहग इकःवित्रमुका मुहापरिकत्वात् अमियमनिशसाच पुनःभारण्डपक्षीव अप्रमत्तः भारण्डपक्षिणः किलैकंशरीरम् यतः एकोदराः पृथगग्रीक विषदा मीभाषिणःभारण्डअक्षिण स्तेषां मृति भिमकले. च्छया तेच अत्यन्ताप्रमत्ताः तदवद् भगवानपि सर्वथा प्रमादरहितः पुनः कुञ्जर इव शौण्डीरः // कर्मशत्रुदलनं प्रति शूरः पुनः, वृषभ इव जातस्थामा जातपराक्रमः स्वीकृतमहाव्रतोद्वहनं प्रति समर्थत्वादिति पुनः सिंह इव दुर्धर्षः परीपहादि जन्तुभिः सर्वथाऽजय्यत्वात्-पुनः मन्दर इव अप्रकम्पः मेरुगिरिवदुपसर्गवातेरचलितः पुनः सागर इव गम्भीरः हर्षविषादादिकारणसद्भावेऽपि अविकृतस्वभावादिति पुनः चन्द्र इव सौम्यले श्यः शान्तत्वात् पुनः सूर्य इव दीप्ततेजाः द्रव्यतो देहेकाम्त्या भावतो' ज्ञानेन' पुन: जास्यकनकमिव जातरूपः यथा कनकं मलविगमनेन दीप्तम्भवति तथा तथा भगवतोऽपि स्वरूपं कर्ममल विगममेन अतिदीप्तमस्तीति पुनः वसुन्धरा इव सर्वस्पर्शसहः यथा च धरा शीतोष्णादिकं सर्वमपि सहते तथा भगवानपि सर्वकष्टसहिष्णुः सुहत हुताशन इव तेजसा ज्वलन्- प्रतादिभितोऽग्नि यथा दीप्यति तथा भगवानपि ज्ञानादिभिः प्रकाशते // नास्त्ययं पक्षो यत्तस्य कुत्रापि प्रतिबन्धो भवति- भगवतः कुत्रापि प्रतिवन्धो नास्तीति भावः तथा स च प्रतिबन्धः चतुर्विधः प्रज्ञप्तः तद्यथा द्रव्यतः क्षेवतः कालतः भावतः तत्र द्रव्यतः सचित्ताचित्तमिश्रितेषु द्रव्येषु प्रतिबन्ध इति तत्र सचित्तं वनितादि अचित्त आभरणादि मिश्रम सालारवनितादि तेषु प्रतिबन्धः तथा क्षेत्रतः ग्रामे वा. नगरे वा- अरण्ये वा क्षेत्रे वा धान्योत्पा // 24 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy