________________ श्रीकल्य प्रभुचारित्र वर्णन मुकावल्या રકa Cates PREPARAN अन्त्यसमिति द्वययोः सर्वथाऽसम्भवः तथापि सूत्रपाठाखण्डितहेतुत्वात् सूत्रकारेणात्रापि समितिद्वथोपादानांकृत्तमिति / पुनः मनसः सम्यक् प्रवर्तकः पुनः वचसः सम्यक् प्रवर्तकः पुनः कायस्य सम्बक प्रवर्तकः अतः गुप्तेन्द्रियः रक्षितेन्द्रियः / पुनः गुप्तब्रह्मचारी - वसत्यादिनववृत्तिशोभितब्रह्मचारी पुनः क्रोधरहितः मानरहितः मायारहितः लोभरहितः पुनः शान्तः सर्वथाऽन्तवृत्या-पुनः प्रशान्तः- बाह्यवृत्तिभ्य इति पुनः- उपशान्तः- अन्तर्बहिर्वृत्तिभ्य इति उभयतः शान्तः- पुनः- परिनिर्वतःकायिकवाचिकमानसिकसर्वसन्तापरहितः- पुनः अनाश्रवः पापकर्मबन्धनरहितः हिंसाद्याश्रवद्वासभावादिति / तथा ममत्वरहितः पुनः अकिञ्चनः सर्वथा द्रव्यादिरहितः पुनः छिन्नन्नन्थः सर्वथा त्यक्त सुवर्णादिग्रन्थः पुनः निरुपलेपः द्रव्यभावमलरहितत्वात्- तत्र द्रव्यमलः देहोत्पन्नः भावमलः कृतकर्मजनितः तदेव निरूपलेपत्वं दृष्टान्तैदृढयति पुनः कांस्यपात्रीमुक्ततोयः यथा कांस्यभाजनम् जलेन न लिप्यते तथा भगवानपि स्नेहेन न लीप्यते- सर्वथा विशुद्धपरिणामित्वात्-पुनः शङ्ख इव निरञ्जनः रागादिरहितत्वात् शङ्ख इव स्वच्छः पुनः जीव इव अप्रतिहतगतिः सर्वत्र बाधारहित विहारित्वात् पुनः पगनमिव निगलम्बनः कस्याप्याधारस्य साहाय्यस्य अनपेक्षणत्वात् पुनः वाथुरिबाप्रतिबद्धः एकस्मिन् स्थाने कापि अवस्थानाभावात् पुनः शारदसलिलमिव शुद्धहृदयः सर्वथोत्तमाचरणत्वात् कालुष्याभावः अत एव तज्जलमिव निर्मलः पुनः पुष्करपत्रवनिरूपलेपः यथा कमलपत्रे जललेपो न लगति तथा भगवतोऽपि कर्मलेपो न लगतीत्यर्थः पुनः कूर्म इव गुप्तेन्द्रियः यथा कच्छपोगुप्तेन्द्रियत्वानिर्भयस्तथा भगवानपि इन्द्रियरक्षणत्वात // 24 //