________________ प्रभुविहारः अभिग्रहः श्रीकल्पमुक्तावल्या // 205 // तृणाप्राप्त्या बहिर्गावः, कदा तत्र बुभुक्षिताः, निरुद्धस्तापसैरन्य-जेग्मुर्वीरकुटी प्रति // 38 // क्षुधितास्तत्र खादन्ति, गावस्तृणानि सर्वतः, कुटीनाथश्च पूच्चक्रे, ततः कौलपतेः पुरः // 39 / / असावपि समागत्य, जगादेति जिनेश्वरम् , महाशान्ततपोमूर्ति, ध्यानस्थं विलसद्युतिम् // 40 // पक्षिणोऽपि महावीर !, वर्धमान ! मुनीश्वर !, स्वनीडरक्षणे दक्षा, भवन्ति प्रथितं न किम् // 41 // सिद्धार्थराजपुत्रोऽसि, क्षत्रियान्वयभूषण !, असमर्थस्तथापि त्वं, रक्षितुं हि स्वकाश्रयम् // 42 // श्रुत्वेत्थं भारती वीरो, दध्यौ मनसि निस्पृहः, एषां मयि सति त्वत्र, स्यादप्रीतिनिरन्तरम् // 43 // अभिग्रहांस्ततः पञ्च, चक्रे पञ्चविवर्जितः, शर्मदो विश्वजीवानां, महावीरप्रभुः प्रभुः // 44 // नाप्रीतिमदगृहेवासः 1, स्थेयं प्रतिमया सह 2, न गेहिविनयः कार्यों 3, मौनं 4 पाणौ च भोजनम् // 45 // कृत्वैवाभिग्रहान् पश्च, दुष्करांजिनभास्करः, विजहार ततः शीघ्र, ग्राममस्थिकसंज्ञकम् // 46 // . प्रावृषि शुक्लपक्षीयां, शुचिमासस्य पूर्णिमाम् , आरभ्य विगतेपक्षे, सन्धासिन्धर्मिलालितः // 47 // मूलपाठः-समणे भगवं महावीरे संवच्छरं साहियं मासं चीवरधारी होत्था तेण परं अचेलए पाणिपडिग्गहिए / व्याख्या-श्रमणो भगवान् महावीरः साधिकमासाधिकसम्वत्सरं यावत् चीवरधारी-अभूत-ततः ऊद्धर्व साधिकमासाधिकवर्षाद्धर्व च अचेलकः तदनु पाणिपतद्ग्रहः-करपात्रश्चाभवत् // ITAL // 2.5 //