SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीकलामुक्तावल्या दोक्षा महात्सवः // 20 // इक्ष्वाकुकुलसम्भूत-स्तथा गोत्रेण काश्यपः, ज्ञातान्वयमहाकाशे, पूर्णेन्दुविमलघुते ! // 1 // श्रेष्ठक्षत्रिय सिद्धार्थ, भूपतेस्त्वं हि भो जिन !, त्रिशलाक्षत्रियाण्याश्च, पुत्रोऽसि विश्ववल्लभः // 2 // देवेन्द्रमनुजेन्द्रास्य-स्तुत्योऽसि विमलैर्गुणैः, अतः पुत्र ! कुलाब्जार्कः, संयमाघ्वनियन्त्रितः // 3 // सावधानेन पन्थानं, मुन्याचरितमाभज, असिधारासमानस्त्वं, पालयालं महाव्रतम् // 4 // श्रमणोत्तमधर्मे त्वं, मा कार्षीच्च प्रमादकम् , इत्युक्त्वा बन्दनं कृत्वा, चापकामन्ति-एकतः // 4 // ततश्च भगवान् एकया मुष्टया कूर्च तथा चतसृभिः मुष्टिभिः शिरोजान् शिरःस्थकेशान् स्वयमेवपश्चमौष्टिकं लोचं करोति तथा कृत्वा च षष्ठेन भक्तेन अपानकेन उत्तराफाल्गुन्यां चन्द्रयोगे सतिएक देवदृष्यम् आदाय शक्रेण वामस्कन्धे स्थापितं तथा एकः एकाकी रागद्वेषसहायविरहात अतएव अद्वितीयः तथाहि-- श्री ऋषभ जिनेश्वरः चतुःसहस्रगजभिः सह तथा श्रीमल्लिनाथपार्श्वनाथौ त्रिशतभूपालैः सह तथा श्री वासुपुज्यः षट्शतनृपैः सह शेषाश्च एकोनविंशतितीर्थङ्कराः एकसहखनृपतिभिः सह दीक्षिता बभूवुः किन्तु चरमतीर्थङ्करः श्रीभगवान् महावीरस्तु एक एव दीक्षितः अतः अद्वितीय इत्युक्तिः / तथा द्रष्यतः शिर:कूर्चलोचनेन भावतः, क्रोधाद्यपनयनेन मुण्डो भूत्वा अगारात् गृहात् निष्क्रम्य अनगारितां प्रबजितः प्रतिपन्नः // 116 // // 20 // *
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy