________________ श्रीकल्पमुक्तावल्यां दीक्षा महोत्सव तथा शङ्खपणवपटहभेरीझल्लरीखरमुखीहुडुक्कदुन्दुभिनिर्घोषनादितरवेण एवम्भूतया ऋद्धया। व्रताय दीक्षाग्रहणाय वजन्तं भगवन्तं पृष्ठतश्चतुरङ्गसैन्यपरिकलितो ललितच्छत्रचामरविराजितो नन्दिवर्धननृपतिरनुगच्छति पूर्वोक्ताडम्बरेण युक्तो भगवान् क्षत्रियकुण्डनगरस्य मध्यभागेन निर्गच्छति निर्गत्य यत्रैव ज्ञातखण्डवनं इति नामकं उद्यानं अस्ति यत्रैव अशोकनामा वर पादपः श्रेष्ठतरुः अस्ति तत्रैव उपागच्छति / // 115 // ___मूलपाठः-उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरुहइ, पच्चोरुहित्ता सयमेव आभरण-मल्लालंकारं ओमुयइ, ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करित्ता छ?णं भत्तेणं अपाणएणं हत्थुत्तराहि नक्खत्तण जोगमुवागरण एगं देवदूसमादाय एगे अबीए मुंडे भवित्ता आगाराओ अणगारियं पव्वइए // 116 // व्याख्या-उपागत्य अशोकवरपादपस्य अधस्तात् शिबिकां स्थापयति स्थापयित्वा च शिविकातः प्रत्यवतरति प्रत्यवतीर्य स्वयमेवाभरणालङ्कारान् उत्तारयति, उत्तार्य तच्चैवं दीक्षाग्रहणसमुत्सुकः स्वयमेव श्री जिनेश्वरप्रभुः प्रथमं कोमलाङ्गुलीभ्यः मुद्रापंक्तिम् हस्ताच्च वीरवलयं अनुपमभुजाभ्यां त्वरितमेव अङ्गदे तथा कम्बुकण्ठतः रमणीयहारं तथा कर्णाभ्याम् कुण्डले तथा शोभमानमस्तकात् मुकुटम् उत्तारयति इति सर्वत्र क्रियासम्बन्धः / एतत्समस्तभूषणानि कुलमहत्तराः हंसलक्षणपटशाटकेन, गृह्णन्ति गृहीत्वा च कुलमहत्तरा स्त्रियः भगवन्तं एवमवादिषुः // 199 //