________________ दोक्षा महोत्सवः पुनः कीदृशः वदनमालासहवैः पंक्तिस्थितलोकानां मुखपंक्तिसहखैः पुनः पुनः अभिष्ट्रयमानः पुनः हृदयमालासहवैः उन्नन्द्यमानः अर्थात् जयतु चिरं जीवतु इति विशुद्धहृदयोद्गारैः समृद्धि प्राप्यमाणः-- पुनः मनोरथमालासहस्रैः विशेषेण स्पृश्यमानः अर्थात् दर्शका इति मनसि विचारयन्ति यदि वयं अस्य सेवका भवामस्तदा वरमिति चिन्त्यमानः पुनः कान्तिरूपगुणैः प्रार्थ्यमानः स्वामित्वेन भर्तृत्वेन वाञ्छ्यमानः पुनः अंगुलिमालासहस्त्रै दर्यमानः 2 पुनः दक्षिणहस्तेन बहूनां नरनारीसहस्राणां अञ्जलिमालासहस्राणि नमस्कारानिति प्रतीच्छन् प्रतीच्छन् गृहणन् पुनः भवनपंक्तिसहस्राणि समतिक्रमन् 2 पुनः तंत्री तलतालत्रुटितगीतवाद्यरवेण कीदृशेन मधुरेण अतएव मनोहरेण पुनः किंविशिष्टेन जयजयशब्दघोषमिश्रितेन, पुनः कीदृशेन मजुमजुना घोषेण अतिकोमलेन जनस्वरेण सावधानीभवन 2 तथा सर्वद्धर्या सम्पूर्णच्छत्रचामरादिराजचिह्नरूपया तथा सर्वद्युत्या आभरणसम्बन्धिकान्त्या सर्ववलेन हस्तितुरगादिरूपकटकेन सर्ववाहनेन करभवेसरशिबिकादिरूपेण-सर्वसमुदयेन महाजनमेलापकेन, सर्वादरेण सर्वांचित्यकरणेन सर्वविभूत्या सर्वसम्पदा; सर्वविभूषया समस्तशोभया तथा-सर्वसम्भ्रमेण प्रमोदजनितौत्सुक्येन सर्वसङ्गमेन सर्वस्वजनमेलापकेन, सर्वप्रकृतिभिः अष्टादशभिर्नेगमादिभिः नगरवास्तव्यप्रजाभिः सर्वनाटकैः सर्वतालाचरैः सर्वावरोधेन सर्वान्तःपुरेण सर्वपुष्पगंधमाल्यालङ्कारक्भूिपया प्रसिद्धया-तथा सर्वत्रुटितशब्दनिनादेन सर्ववादित्रशब्देनेति तथा महत्या ऋद्धया महत्या धुत्या महता बलेन महता समुदयेन महता वरत्रुटितजमगसमगप्रवादितेन ( युगपत् उत्तमवाधघोषेणेति)