SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुक्तावल्या // 19 // // अथ महोत्सव प्रकारः // पश्यन्त्येवं नरा नार्यों, वैभवं च जिनेशितुः, चित्रार्पिता इवात्यन्त, प्रमोदभरमेदुराः॥१६॥ ततः प्रथमं प्रभुपुरस्तात् स्वस्तिक१ श्रीवत्सर नन्द्यावर्त३ वर्द्धमानकं४ भद्रासनं५ कलशो६ मत्स्ययुग्मं७ दर्पणं८ इति रत्नमयाष्टमङ्गलानि क्रमशः प्रचेलुः। तदनन्तरं पूर्णकलशाः भृङ्गाराः चामराणि महती वैजयन्ती तथा वैडूर्यरत्नखचितदण्डस्थितं श्वेतच्छत्रम् / तथा मणिसुवर्णमय सपादपीठं सिंहासनं च प्रचचाल तदनन्तरं आरोहरहिता अष्टोत्तरशतवर तुरङ्गमाः एवमष्टोत्तरशतवरगजाश्च चेलुः तदनन्तरम् दीप्यत्प्रचलत्पताकामनोहरास्तथा घण्टावादित्रनादरमणीयाः तथा नानाविधशस्त्रपरिपूर्णाः एवं दृढवर्मभरिताः अष्टोतरशतरथाः प्रचलिताः तदनु सुन्दरवस्त्रधारिणः अष्टोत्तरशतवीरपुरुषा डुढौकिरे ततः क्रमशः हयाः 1 गजाः 2 रथाः 3 पदातिसैन्यानि जग्मुः ततः कमनीयपताकासहस्रमण्डितः तथा सहस्रयोजनोच्छायो महेन्द्रध्वजः चचाल / तदनन्तरं खड्गधारिणः कुन्तधारिणः पीठफलकधारिणः क्रमेण प्रचेलुः तदनु हास्यकारकाः नृत्यकारकाः कान्दर्पिकाः जय जयशब्दं कुर्वाणाः प्रचेलुः तदनन्तरं बहवः उग्राः भोगाः राजन्याः क्षत्रियास्तलवराः माडम्बिकाः कौटुम्बिकाः श्रेष्ठिनः सार्थवाहाः देवाः देव्यश्च श्रीस्वामिनः पुरस्तात् प्रतस्थिरे तदनन्तरम् /
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy