________________ श्रीकल्पमुक्तावल्यां / // 190 // दीक्षाग्रहणम् // शेषं च सूत्रकृत स्वयं वक्ष्यति // मूलपाठः-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से / हेमंताणं पठमे मासे पढमे पक्खे मग्गसिरबहुले तस्स ण मग्गसिरबहुलस्स दशमीपक्खणं पाईणगामिणीए छायाए पोरिसीए अभिनिविट्टाए पमाणपत्ताए सुब्बएणंदिवसेणं विजएण मुहुत्तेणं चंदप्पभाए सीयाए // __ व्याख्या--तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः-योऽसौ शीतकालस्य प्रथमो मासः प्रथमः पक्षः मार्गशीर्षमासस्य कृष्णपक्षः तस्य मार्गशीर्षबहुलस्य दशमीदिवसे पूर्व दिग्गामिन्यां छायायां पौरुष्यां पाश्चात्यपौरुष्यां अभिनिवृतायां जातायां कथम्भूतायां प्रमाणप्राप्तायां नतु न्यूनाधिकायां सुव्रताख्ये दिवसे विजयाख्ये मुहर्ते चन्द्रप्रभायां पूर्वोक्तायां शिबिकायाम् कृतषष्ठतपाः विशुद्धमानलेश्याकः पूर्वाभिमुखः सन् रत्नखचितसुवर्णसिंहासने निषीदति // शिबिकास्थप्रभोर्याम्ये, चादाय हंसलक्षणम् / पटशाटकमेका स्त्री, तदन्वयमहत्तरा // 1 // वामपार्श्वे विभोरेव-मम्बधात्री लसन्मुखी / दीक्षोपकरमादाय, भद्रासनमुपाविशत // 2 // स्फारशङ्गारसद्धारा, धवलच्छत्रपाणिका। तरुणीपृष्ठतश्चैका सौम्यभावा न्यषीदत // 3 // पूर्णकुम्भकरा चैका, सुभव्येशानकोणके / मणिव्यजनसद्धस्ता, चाग्निकोणे तथाऽपरा // 4 // स्वस्वकार्यपरा भक्त्या, प्रभुपादाब्जवृत्तयः। भद्रासनानि रम्याणि, समलश्चक्रुरुत्सुकाः // 5 // // 190 //