________________ श्री कल्प - मुक्तावल्या RAMANAN प्रहणम् चत्वरं प्रति वीथिं च, प्रतिमार्ग तथैव च / घोषणा कारिता सम्यग, दानप्रदानहेतवे // 3 // यस्मै यद्रोचते वस्तु, ग्राह्य तं च यथेच्छया / आगतेभ्यस्तदा दत्तं, प्रभुणाऽपि महद्धनम् // 4 // शक्रादेशेन तत्सर्व, पूरयन्ति सुरोत्तमाः। वर्षेण यद्धनं दत्तं, तस्य मानमथोच्यते // 5 // त्रीण्येव च कोटिशतानि, अष्टाशीतिश्च भवन्ति कोट्यः अशीतिं च शतसहस्राणि, एतत् संम्वत्सरे दत्तम् // 6 // | // तत्र कविघटना // तत्तद्वार्षिकदानवर्षविरमदारिद्यदावानलाः, सद्यः सज्जितवाजिराजिवसनालंकारदुर्लक्ष्यभाः // सम्प्राप्ताः स्वगृहेऽर्थिनः सशपथं प्रत्याययन्तोऽङ्गनाः / स्वामिन् पिङ्गजनैर्निरुद्धहसितैः के यूयमित्युचिरे // 1 // दत्वा दानं पुनः पृष्टो, नन्दिवर्द्धन भूमिपः / प्रभुणा तव सत्कोऽपि, पूर्णों राजन् सकोऽवधिः // 7 // गृहाम्यहं ततो दीक्षां, श्रुत्वा तेनापि भूभुजा। ओमित्युक्त्वा च तदेतोः, प्रारम्भि कार्यमुत्तमम् // 8 // ध्वजैहट्टैः पताकाभि-स्तोरणैर्भूषणैस्तथा / सुरलोकोपमं सद्यः, कृतं कुण्डपुरं तदा // 9 // नन्दिराजोऽथ शक्राद्याः, प्रफुल्लवारिजाननाः कारयन्ति महाकुम्भांश्चाष्टोत्तरसहस्रकम् // 10 // स्वर्णमयान् रूप्यमयान् , मणिमयांस्तथैव च / स्वर्णरूप्यमयानेवं, स्वर्णमणिमयांस्तथा // 11 // रूप्यमणिमयानेवं, स्वर्णरूप्यमणिप्रथान् / मृन्मयान् दर्शनीयांश्च, प्रत्येकमिति सुन्दरान् // 12 // दीक्षान्योग्यां पराश्चापि, सामग्री सकलामपि / महानन्दभरणेते, कारयन्तीति योजना // 13 // // 18 //