SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुक्तावल्या ग्रहणः // 187 // व्याख्या-इदं पदं गिहत्यधम्माओ इत्यतोऽग्रे योज्यम् अर्थात् श्रमणस्य भगवतो महावीरस्य मनुष्ययोग्यात्--गृहस्थधर्मात विवाहादेः पूर्वमपि अनुत्तराभोगिकम् लोकोत्तरप्रयोजनशालि, अप्रतिपाति-अपतनशीलम् ज्ञानदर्शनम् / अवधिज्ञानं अवधिदर्शनञ्च अभूदिति ततः श्रमणो भगवान् महावीरः तेन-अनुत्तरेण आभोगिकेन ज्ञानदर्शन / आत्मनो दीक्षाकालं आभोगयति--विलोकयति आभोग्य च त्यक्त्वा हिरण्यं रूप्यं त्यक्त्वा सुवर्णं त्यक्त्वा धनं त्यक्त्वा राज्यं त्यक्त्वा राष्ट्र (देशम्) एवं सैन्यं वाहनं कोर्ष कोष्ठागारं तथा त्यक्त्वा नगरं त्यक्त्वा अन्तःपुरं त्यक्त्वा जानपदं देशवासिलोकं त्यक्त्वा विपुलधनकनकरत्नमणिमौक्तिकशङ्खशिलाप्रवाल रक्तरत्नप्रमुखं तथा सत्सारस्वापतेयं एतत् सर्व त्यक्त्वा पुनः किं कृत्वा विच्छद्य विशेषेण त्यक्त्वा पुनः किं कृत्वा विगोप्य तदेव गुप्तं सद्दानातिशयात् प्रकटीकृत्येति भावः अथवा विगोप्य एतत्सर्व दृश्यवस्तुधनकनकादि निन्दनीयम् अस्थिरत्वात् इत्युक्त्वा पुनः किं कृत्वा दानं धनम् दायारेभ्यः दानार्थमागतेभ्यः याचकेम्यः परिभाज्य अर्थात् विभागैः पृथक्-दत्वा अथवा इदं अस्य देयम् इदम् अमुकस्य देयं इति विचार्य सम्यक्-विभागीकृत्य पुनः किं कृत्वा दानं धनं दायिकम्यः (गोत्रिकेभ्यः--परिभाज्य विभागशो दत्वा- // 112 // अनेन सूत्रेण भगवता वार्षिकदानं दत्तमिति सूचितम्दीक्षावासरतः पूर्व, वर्षावधि प्रभुः स्वयम् / प्रावर्तत महानन्दी, दातुं दानं च वार्षिकम् // 1 // सूर्योदयात्समारभ्य, प्रातराशावधि प्रभुः / अष्टलक्षाधिकामेकां, कोटिरौक्मी ददौ सदा // 2 // // 187n
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy