SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुक्तावल्यां| // 185 // दीक्षाग्रहणम् prapti गेहेऽप्यचित्तनीरेण, सर्वाङ्गमज्जनं नहि / कृतं वीरेण वीरेण, पाणिपादास्य वर्जनम् // 13 // पालयामास स ब्रह्म, यावज्जीवं च धीनिधिः / दीक्षोत्सवे कृतं स्नानं, सच्चित्तवारिणा विधेः // 14 // चतुर्दशमहास्वम, सूचितत्वेन भूभुजः / चक्रवर्तिधिया सर्वे, सेवमाना निरन्तरम् // 15 // भगवन्तं विलोक्यैवं, वैराग्याध्वप्रवर्तिनम् / श्रेणिकचण्डप्रद्योतप्रमुखोः स्वं गृहं ययुः // 16 / / एकतः समाप्तप्रतिज्ञः स्वयमेव भगवान् दीक्षार्थमुद्यतः अपरतः लोकान्तिकदेवैरेकोनत्रिंशद्वर्षे सति स्वकाचारेण दीक्षार्थ प्रभुर्विज्ञप्तः इति-कथयति सूत्रकारः / ___ मूलपाठः-पुणरवि लोअंतिएहिं जीअकप्पिएहिं देवेहिं ताहिं इटाहिं जाव वहि अणवरयं अभिनंदमाणा य अभिथुव्वमाणा य एवं वयासी // 110 व्याख्या-पुनरपि लोकान्तिकदेव बोंधित इति विशेषो द्योत्यते लोकान्ते संसारान्ते भवाः लोकान्तिकाः एकावतारत्वात् अन्यथा ब्रह्म लोकवासिनां तेषां लोकान्तभवत्वं विरुध्यत्ते ते च लोकान्तिका नवविधाः / यदुक्तम् // . सारस्सय 1 माइच्चा 2 वण्ही 3 वरुणाय 4 गद्दतोयाय५ / तुडिआ 6 अव्वाबाहा 7 अग्गिच्चा 8 चेव रिट्ठाय // 1 // एए देवनिकाया भयवं बोहिन्ति जिणवरिदं तु / सव्वजगज्जीवहियं भय / तित्थं पवत्तेहि // 2 // यद्यपि स्वयम्बुद्धो भगवानुपदेशं नापेक्षते तथापि तेषामयमाचारः वर्तते तदेवाह जितकल्पिकाः देवाः अवश्यम् आचारवन्त इत्यर्थः ताभिः इष्टाभिः यावत् यावच्छब्देन कंताहि मणुनाहिं इत्यादि पूर्वोक्ताभिः वाग्भिः का O
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy