________________ मग-. श्री कल्पमुकावणं // 18 // वत्परिवारः S एवमाख्यायेते तद्यथा अणोज्नाः इति वा 1 प्रियदर्शना इति वा 2 श्रमणस्य भगवतो महावीरस्य पुत्र्याः पुत्री दौहित्री काश्यपगोत्रेण-तस्या द्वे नामधेये एवमाख्यायेते तद्यथा शेषक्ती इति वा यशस्वती इति वा // 105 // मूलपाठः-समणे भगवं महावीरे दक्खे दक्खपइण्णे, पडिरूवे आलीणे भदए, विणीए, नाए-नायपुत्ते नायकुलचन्दे विदेहे विदेहदिन्ने विदेहजचे, विदेहम्माले तीए संवासाई विदेइंसि कट्टु अम्मापिऊहि देवत्तगएहि गुरुमहत्तरएहिं अब्भणुग्णाए समत्तपइण्णे व्याख्या-श्रमणो भगवान् महावीरः लोकोत्तरोऽस्तीत्याह कीदृशः दक्षः सर्वकलाकुशलत्वात् अथवा कृतप्रतिज्ञा निर्वाहकत्वात् दक्षः तथा प्रतिरूपः लोकोत्तरकमनीयकान्तिः अतएव ज्ञातः सूर्यवत् जगति विख्यातः पुनः ज्ञातपुत्र:-श्रीसिद्धार्थ राजसूनुरिति तत्रापि ज्ञातकुलचन्द्रः ज्ञातचन्द्रः ज्ञातकुले चन्द्र इव प्रकाशमान इति / पुनः विदेहः विशिष्टदृढशरीरः वज्रऋषभनाराचसंहननसमचतुरस्त्रसंस्थान-मनोहरत्वादिति // पुनः वैदेहदिन्नः त्रिशलादेवीतनयः पुनः विदेहार्चः त्रिशलाक्षत्रियाणी कुक्षिजात शरीर इति अर्चा शब्देनात्र शरीरं ग्राह्यम् पुनः विदेह सुकुमाल:-गृहस्थावाससुकुमालः विदेहशब्देन गृहावासो ग्राह्यः दीक्षाकाले तु. उपसर्गादिपरीषहादिसहने प्रभुरतिकठोरप्रकृतिकोऽभूत् इदमेव महतां महत्त्वम् ततः त्रिंशद्वर्षाणि गृहवासे कृत्वा त्रिंशद्वर्षावधि गृहस्थी सन् तदन मातापित्रोदेवत्वं गतयोः सतोः तदनु गुरुमहत्तरैः नन्दिवर्द्धनादिभिः अभ्यनुज्ञातः अर्थात् समाप्तप्रतिज्ञो जातः मातपित्रोर्जीवतो नहि प्रवजिष्यामि इति गर्मगृहीतप्रतिज्ञापूरणत्वादिति 183 //