________________ श्रीकल्प- मुक्तावल्या देवकृत IFA प्रभुनामः // 174 // समुदिता सहभाविनी या तपश्चर्यादिशक्तिः तथा शक्त्या श्रमणः इति द्वितीयं नाम 2 अथवा श्राम्यन्ते शिथिसारित लीजायन्ते रागादि विषया यस्मिन्निति श्रमणः तथा भयभैरवयोः अचलः तत्र भयम् सहसा विद्युदादिजातम् भैरवं सिंहादिजन्यं तयोर्विषये निष्कम्पः तथा परीषहोपसर्गाणाम् विषये शान्ति क्षमः तत्र परीषहाः क्षुत्पिपासादयो द्वाविंशतिः२२-तथा-उपसर्गाश्च दिव्यादयश्चत्वार सभेदास्तु षोडश एवम् द्वाविंशति परीषहाणाम् षोडशो पसर्गाणां च क्षमापूर्वकसहनशीलत्वात् क्षमः समर्थ इति नत्वसमर्थतयेति तथा प्रतिमानाम् पालकः तत्र प्रतिमाः भद्रादयः एकरात्रिक्यादयश्च तथा अभिग्रह विशेषाश्च तासां तेषां च परिपालकः-सम्यक् रक्षकः अतएव धीमान् प्रशस्तबुद्धिः कुतः ज्ञानत्रयाभिरामत्वात् पुनः अरतिरतिसहः-अरति तथा रचि सहते इति तादृशः नतु हर्षविषादकारकः-तथा द्रव्यवीर्य सम्पन्न:- तत्र द्रव्यं तत्तद्गुणानां भाजनम् वा रागद्वेषरहितता इति वृद्धानांपन्थाः तथा वीर्य महापराक्रमः- ताभ्यां द्रव्यवीर्याभ्यां सम्पन्नः युक्तः यतः भगवान् एतादृशः समर्थः तत एव देवैः तस्य भगवतः श्रमणो भगवान् महावीर इति तृतीयं नाम // 3 // 108 // तत् इदं नाम देवैः कृतं कथं कृतमित्याह इत्यत्र वृद्धसम्प्रदायश्चेत्थम् देवासुरनरै यस्य महेन महता मुदा, जन्मोत्सवो जगत्तोषी चक्रे सद्भक्ति निर्भरैः // 1 // दासदासीगणैः श्रेष्टैः सेवकै विनयाश्चितैः, परिवृत्तः प्रभु श्चैवं सेवितो हि निरन्तरम् // 2 // सिद्धार्थराजसद्गेहे सर्वानन्दमयो विभुः ववृधे कल्पशाखीव द्वितीयेन्दु रिबार्चितः // 3 // // 17 //