________________ श्री कल्पमुक्तावल्या सिद्धार्थकत प्रभुनाम // 173 // आत्मविषयो यावत् सङ्कल्पः समुत्पन्नः कोऽसौ सङ्कल्पः ? इत्याह यतः प्रभृति अस्माकं एषः-दारकः कुक्षौ गर्भतया उत्पन्नः तत्प्रभृति वयं हिरण्येन रूप्येन व महे तथा सुवर्णन वर्धामहे, तथा धनेन धान्येन राज्येन यावत् स्वापतयेन (द्रव्येण) प्रीतिसत्कारेण अतीव अतीव अभिवर्धामहे त वश्यं स्वाधीनताम् आगताः // 106 // मूलपाठः-तं जया णं अम्हं एष दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स इमं एयाणुरूवं गुण्णं गुणनिप्फन्नं नामधिज्जं करिस्सामो वद्धमाणुति / ता अज्ज अम्हं मणोरहसंपत्ती जाया, ते हो उ णं अम्हं कुमारे बद्धमाणे नामेणं // 107 // व्याख्या-तस्मात्-यदा-अस्माकं-एष दारको जातो भविष्यति तदा वयं एतस्य दारकस्य इमं एतदनुरूपं गुणनिष्पन्न (गुणानुकूलमिति) एवविधम् अभिधानं करिष्यामः बर्द्धमान इति नामतः इति सा पूर्वोक्ता पूर्वोत्पन्ना अस्माकं अद्य मनोरथस्य सम्पत्तिः जाता तस्माद्भवतु अस्माकं कुमारः वर्द्धमान नाम्ना // 107 // मूलपाठः-समणे भगवं महावीरे कासवगुत्ते गं तस्स णं तओ नामधिज्जा एवमाहिज्जन्ति / तं जहा अम्मा पिउसंतिए वद्धमाणे / सहसमुइयाए समणे अयले भयमेवाणं परीसहोऽवसग्गाणं खतिखमे पडिमाणं पालए-धीमं अरतिरतिसहे दविए वीरियसम्पन्ने देवेहि से नामकयं समणे भगवं महावीरे // 3 // 108 // व्याख्या-श्रमणो भगवान् महावीर-काश्यपगोत्रः अस्ति-तथा तस्य च भगवतः त्रीणि अभिधानानि एवमाख्यायन्ते तद्यथा मातापितृसत्कम् मातृपितृभ्यां दत्तम् वर्द्धमान इति प्रथम नाम 1 तथा सह // 13 //