________________ श्री कल्पमुकवल्या सिद्धार्थ कत जन्माभिषेकाधिकारः // 169 // व्याख्या-ततः श्रमणस्य भगवतो महावीरस्य माता पितरौ प्रथमे दिवसे स्थितिपतितां कुलमर्यादाम् कुरुतःमूलपाठः-तइए दिवसे चंद सूर दंसपियं करेन्ति / व्याख्या-तथा तृतीये दिवसे चन्द्रसूर्यदर्शनिकां कुरुतः तस्यायम्बिधिः--पुत्रजन्मदिवसात-दिनद्वये व्यतिक्रान्ते सति तृतीये दिवसे गृहस्थ गुरु:-अईत्प्रसुप्रतिमायाः पुरस्ताद् रजतमयीं स्फटिकमयीं वा भव्यां चन्द्रमूर्ति प्रतिष्ठाप्य पूजयित्वा च विधिपूर्वकं स्थापयेत् तदनन्तरं सस्नातां सदस्वाचिताम् सदाभूषणभूषितां सपुत्रां मातरं चन्द्रोदये सति प्रत्यक्षं चन्द्रसन्मुखं नीत्वा चन्द्रमन्त्रमुच्चारयेत् तद्यथा 'ॐ अर्ह चन्द्रोऽसि-निशाकरोऽसि नक्षत्रपतिरसि सुधाकरोऽसि औषधिगर्भोऽसि, अतः अस्य कुलस्य वृद्धिं कुरु कुरु स्वाहा इत्यादि चन्द्रमन्त्र मुचारयश्चंद्र दर्शयेत् मातापुत्रयोरिति वदनु सपुत्रा-जननी गुरुं प्रणमति तदनु गुरुः आशीर्वादं दद्यात तद्यथाकान्तैः स्वैरमृतोपमैः मुकिरणैः सर्वोषधीजीवनम्, लोकस्यास्य विपद्धरः सुखकरः सन्मङ्गलः सत्फलः, सदृष्ट्युत्तम विम्बविश्वमहितः शालिकाकल्पको, वंशे वः सकलेऽपि वृद्धिमतुलां कुर्याच्छिवे सर्वदा // 1 // ततः स्थापितां चन्द्रमूर्ति विसर्जयेत् ततः एवम् पूर्वोक्तरीत्या सूर्यस्यापि दर्शनं कुर्यात् विशेषश्वायम् सूर्यस्यमूर्तिः स्वर्णमयी का ताम्रमयी कार्य तदनु सपुत्रां मातरं सूर्यसन्मुखं नीत्वा अनेन प्रकारेण सूर्यमन्त्रमुच्चारयेत् तद्यथा 'ॐ अई सूर्योऽसि दिनकरोऽसि तमोपहोऽसि सहस्रकिरणोऽसि जगच्चक्षुरसि