SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमु कावल्या सिद्धार्थकत जम्माभिषे काधिकारः S // 167 // अर्थात्-पूर्वोक्तसकलसामग्रया संहितः सिद्धार्थों राजा दशदिवसान् यावत् क्रमादागतां कुलमर्यादाम्- महोत्सवरूपाम् करोतीति योजना कार्या-कीदृशीम् कुलमर्यादाम् उच्छुल्काम् नगरान्तर्गतागतानां व्यवहारिणां कृते तदानीम् सर्वथा क्रयाणकवस्तुग्राहयद्रव्यरहिताम्-दाण इतिलोके तेन रहिताम् तथा पुनः उत्कराम्-यस्य पुरुषस्य , यद्वस्तुनः-आवश्यकता स्यात् गोमहिषादिग्राहयकररहिताम्-पुनः उत्कृष्टामसर्वप्राणिहर्षहेतुत्वात्-इलाध्यामिति तथा अदेयाम् राजाज्ञा-इयमासीत् यस्य पुरुषस्य यद्वस्तुनः आवश्यकता स्यात् तत् आपणतः-हट्टतः- ग्राहयम् तस्य / मूल्यश्च न केनाऽपि देयम् दास्यति स्वयं राजा इति हेतोः-अदेयाम्-पुनः-अमेयाम्-बहुवस्तु सद्भावात्अपरिच्छिन्नाम् अथवा क्रयविक्रयनिषेधात्-तत्रैव सर्ववस्तुप्रापकत्वाच्च अमेयामिति पुनः-अभटप्रवेशाम्राज्याधिकारिणामपि तदानीमन्यगृहेप्रवेशाभावात् पुनः अदण्डकोदण्डिमाम-अल्पापराधे सति वा बहपराधेसति राज्ञे यो दण्डः प्रदीयते-तद्वयप्रकारदण्डरहितामिति / पुन:-अधरिमाम्-सर्वथा- ऋणरहिताम् सर्वेषाम्ऋणिनां राज्ञा दत्त ऋणत्वात्-पुनः-गणिकावरनाटकपात्रकलिताम्-मणीयगणिकासहित नाटकीयपात्रोपलक्षिताम् / पुनः-अनेकतालाचरानुचरिताम् अर्थात् नानाविधतालमर्मज्ञप्रेक्षकजनादिसेवितामिति पुन:-अनुद्धृत- मृदङ्गाम् मृदङ्गवाद्यसहिताम्-निरन्तरमृदङ्गवादनकुशलपुरुषोपयुक्तामिति-पुन:-अम्लान-माल्य-दामाम् सर्वत्रविकसितमालासहितामिति / पुनः-प्रमुदित-प्रक्रीडित-सपुरजन-जानपदाम्-अर्थात् आनन्देन क्रीडमानाः नगरवासिनो जना. अन्यदेशागतजनाश्च यस्यां तादृशीम् दशदिवसान्-यावत्-एवम्विधां कुलक्रमादागताम् उत्सवरूपां मर्यादाम करोति-राजा-॥१०२॥ INT
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy