________________ श्री कल्पमुक्तावल्यां दिक // 146 // कुमारीकृत महोत्सवः // अथ पञ्चमं व्याख्यानं प्रारभ्यते // मू० पा०-जं रयणि च णं समणे भगवं महावीरे जाए सा णं रयणी बहहिं देवेहिं देवीहि य ओवयंतेहिं उप्पयंतेहि य उपिजलमाणभूया कहकहगभूया आवि हुत्था / / 57 // व्याख्या-यस्यां च रात्रौ श्रमणो भगवान्-महावीरो जातः-सा रजनी बहुभि देवैः शक्रादिभिः तथा बहीभि देवीभिः–दिक्कुमार्यादिभिश्च-अवपतद्भिः अर्थात् प्रभुजन्मोत्सवहेतवे स्वर्गात्-भुवम्-आगच्छद्भिःतथा उत्पतद्भिः-मेरुशिखरगमनाय ऊर्ध्व गच्छद्रिः-इति कृत्वा भृशम् आकुला इव / अर्थात् हर्षवशात्हासपूर्वम् अव्यक्तशब्दैः कहकहकभूता इव-कोलाहलमयीब सा रात्रिरभूत्-इति // 58 // देव देवीभिः विस्तारेण प्रभुजन्ममहोत्सवः कृतः-इत्यनेन सूत्रेण सूचितम् तथाहि-श्रीप्रभुजन्मसमयेअचेतना अपि दिशो निर्मला बभूवुः तथा / अति शीतलसुगन्धहेतुत्वात्-वायुरपि सुखस्पर्शः सन् मन्दं मन्दं ववौ-तथा त्रयो लोकाः उद्योतमया इव आसन् तथा गगने कर्णप्रियाः दुन्दुभयो दध्वनः। तथा पृथिवी-उच्छ्वासिता इव बभूव-तथा सततदुःखपीडिताः नारकीया अपि जीवा गतदुःखा इव बभूवु रतो ननन्दुः // तथा प्रतितीर्थङ्कराणाञ्जन्मकाले सूतिकर्मणि प्रथमं षट्पञ्चाशत् दिक्कुमार्यः-आगत्य स्वकीयशाश्वताचारमाचरन्ति-॥ तथाहि // // 146 //