________________ श्री कल्पमुकावल्यां प्रमुजन्माधिकार // 145 // किम्भूतासु विक्षु अन्धकाररहितासु अर्थात्- प्रभुझन्मकाले सर्वत्र प्रकाशमयत्वात् / पुनः विशुवासु-दिग्दाहा युपद्रवरहितत्वात्-तथा जयिकेषु सर्वेषु-शकुनेषु सत्सु-अर्थात्-भरद्वाजनीलकण्ठमयूरादि पक्षिषु जय जय शब्दान् उच्चरत्सु] सत्सु-तथा एवम्बिधे वायौ चलति सति-कीरशे [मारुति) पायौ-इत्याह-प्रदक्षिणानुकले अर्थात् दक्षिणावर्तत्वात् शीतलसुगन्धहेतुत्वात-सुखजनके, पुनः-भूमिसपिणि-मन्दसञ्चारत्वात्-पवम्विधे मारूति वायो-प्रधातुम् आरब्धे सति तथा निष्पन्नसर्वशस्यमेदिनी-सर्वधान्यपूरिता यत्र काले पृथिवी वर्तते तादृशे काले-सति तथा प्रमुदितपक्रोडितेषु जनपदेषु-सत्सु-अर्थात् सुभिक्षसत्सम्पत्त्या-वसन्तादिमनोहरोत्सवादिना रन्तुमारग्धमानेषु जनेविति / एवम्विधेषु जनपदवासिलोकेषु सत्सु-तथा पूर्वरात्रापररात्राकालसमये-उत्तराफालगुनोनक्षत्रेण समं योगमुपागतेऽ-चन्द्रे सतिसर्वथा पुण्योदयेन-आरोग्या पीडारहिता-सा त्रिशला-आरोग्यम्-भावाधारहितं यथा स्यात्तथा दारक त्रिभुवननायकम् पुत्र प्रजाता सुषुवे-इति भावः // 6 // इति श्रीतपागच्छनभोनभोमणि शासनसम्राट्जङ्गमयुगप्रधान कनकाचलतीर्थ षोडशीयोद्धारकक्रियोद्धारक सकल भट्टारकाचार्य श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागततपोनिष्ठ सकलसम्वेगि शिरोमणिपन्यासयाविमलगणि शिष्यरत्न पण्डित शिरोमणिपन्यास सौभाग्यविमल गणिवर पादारविन्द चञ्चरीकायमोणविनेय सकलसिद्धान्तवाचस्पति अनेक संस्कृतग्रन्थप्रणेता पन्यासमुक्तिविमलगणिविरचत कल्पमुक्तावलिब्यारव्या, चतुर्थं व्यारव्यानं समाप्तम् "इति शुभम्”