SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुकावल्यां A // 142 // प्रभो जन्माधिकारः मूलपाठः-संपुण्णदोहला सम्माणियदोहला अविमाणियदोहला वुच्छिन्नदोहला ववणीयदोहला मुहं सुहेणं आसइ सयइ-चिट्टइ-निसीयइ-तुयट्टइ, विहरइ, सुहं सुहेणं तं गम्भ परिवहइ // 65 // ___ व्याख्या-पुनः किम्विशिष्ठा त्रिशला सम्पूर्णदोहदा (सिद्धार्थराज्ञा सर्वाभिलाषापरिपूरकत्वादिति) तथा सन्मानितदोहदा-परिपूर्णहेतुत्वादिति ) तथा-अविमानितदोहदा-( न कस्यापि दोहदस्थावगणनाभावादिति-तथा व्युच्छिन्नदोहदा पूर्णवाञ्छितत्वादिति / अतएव व्यपनीतदोहदा अर्थात् सर्वदोहदानाम्परिपूर्णत्वात् अविद्यमानदोहदा-सुखं सुखेन-गर्भपीडाऽजनकत्वेन-आश्रयति गर्भभारालसतयास्तम्भादिकमवलम्बत इति-तथा-शेते निद्रां कुरुते तथा तिष्ठति ऊवं तिष्ठति-निषीदति-आसने उपविशति-तथा त्वग्वर्तयति-अर्थात् निद्रां विना शय्यायां शेते-इत्यर्थः तथा विहरति-सुबद्धभवनकुट्टिमतले सुखं विवरति-अनेन प्रकारेण त्रिशलादेवी सुखं सुखेन महाऽऽनन्देन तं गर्भ परिवहतीति तात्पर्यम् // 95 // मूलपाठः-तेणं कालेणं ते णं समएणं भगवं महावीरे, जे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुध्धे | तस्स णं चित्तसुध्धस्स तेरसी दिवसे णं नवण्डं मासाणं बहुपडिपुण्णाणं अध्धठमाणं राइंदियाणं विइक्कंताणं // व्याख्या--तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः-योऽसौ-उष्णकालस्य प्रथमो मासो द्वितीयपक्षःचैत्र मासस्य शुक्लपक्षः-तस्य चैत्र शुक्लस्य त्रयोदशी दिवसे नवसु मासेषु बहुप्रतिपूर्णेषु अर्धाष्टमरात्रिंदिवाधिकेषु सार्वसप्तदिनाधिकेषु नवसु मासेषु-व्यतिकान्तेषु इति भावः // तदुक्तम् // द्वयो वर महिलयो गर्भे उषित्वा गर्भसुकुमालः नव मासान् प्रतिपूर्णान् सप्त च दिवसान् समतिरेकान् 1 तत्र चतुर्विशति तीर्थङ्कराणां गर्भस्थितिकालः सप्ततिशतकस्थाने श्री सोमतिलकसूरिभि कथितः // 142 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy