________________ श्री कल्पमुकावल्यां // 139 // मलपाठः-तए णं सा तिसला खत्तियागी व्हाया कयवलिकम्मा कय-कोउय-मंगल पायच्छित्ता सव्वाऽलंकार विभू- | गर्भ पोषसिया तं गम्भं नाइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडुएहिं नाइकसाएहिं नाइअंबिलेहिं नाइमहरेहिं नाइनिध्धेहिं Kणाधिकारः नाइलुक्खेहिं नाइउल्लेहिं नाइसुक्केहिं सव्वत्तुभयमाणसुहेहिं भोयणाऽऽच्छायण गंधमल्लेहिं // व्याख्या-ततः सा त्रिशला क्षत्रियाणी स्नाता तथा कृतबलिकर्मा-कृतपूजा-इति कृतकौतुकमङ्गलप्रायश्चित्ताअतः-सर्वालंकारभूषिता सती तं गर्भम्-नातिशीतैः तथा नाति-उष्णैः-एवं नातितिक्कैः-तथा नातिकटुकैः-तथा-नातिकषायैः तथा नातिअम्लै:-तथा नातिमधुरैः नातिस्निग्धैः-नातिरुक्षैः-नात्याः -नातिशुष्कः-तथा सर्वर्तुभज्यमान सुखहेतुकैः तदुक्तं शार्दूल-वर्षौं लवणं सुधा शरदि वै शीतं जलं निमलम्, हेमन्ते बलपुष्टिदं मतिपदं शुध्धङ्गवां सत्पयः // ___ आम्लीयः खलु शैशिरे गुणकरः सेव्योरसः प्रीतिद, थाज्यं स्वादु शरीरपुष्टिनिगमं काले वसन्ते गुडः // 1 // एवम्विधैः-भोजनाच्छादनगन्धमाल्यैः-गर्भ पोषयति इति-तथाहि-नातिशिताः-नात्युष्णाः-आहारादयो गर्भस्य हिता भवन्ति कुतः-वातपित्तश्लेष्महेतुत्वादिति. // तथोक्तञ्च वाग्भटे // वातलैश्च भवेदगर्भः कुब्जान्धजडवामनः पित्तलैः स्खलति पिङ्गः श्चित्री पाण्डुः कफात्मभिः॥१॥ तथा-अति लवणं नेत्रहरं अति शीतं मारुतं प्रकोपयति अत्युष्णं हरति बलं अतिकामं जीवितं हरति // 2 // 1 ग्रीष्मे गुडः इति। // 139 //