________________ त्रिशला श्रो कल्पमुकावल्यां // 129 // SUCC00 का दिति-हेतोः-मातुः-अनुकम्पनार्थः तथा भक्त्यर्थश्च अर्थात् मदतिरिक्तेन-अन्येनापि नरेण-एवम्बिधा भक्तिः कर्तव्येति 10 बोधनाय च / स्वयं निश्चल:-निष्पन्दः-ईषदपिचलनाभावात्-अतएव निरेजनः (निष्कम्पः तथा आ--ईषत्-लीनः- माताखेर अङ्गगोपनादिति तथा प्रकर्षण-लीनः-उपाङ्गगोपनादिति ततः-गुप्तः-अर्थात् ईषल्लीनालीन गुप्तः-विशेषेण-अभवदिति- वर्णनम् अत्रोत्प्रेक्षते कविःगर्भस्थोऽपि जयाय मोहनृपते मन्त्रं प्रकुर्वन्निव, चैकान्ते विभुरेष गोचरपरं ध्यानं विधत्ते नु किम् / / किम्वा जेतुमनङ्गमेष भगवान् कुक्षौ जनन्याः स्वकम् , सङ्गोष्यात्मरसश्चिनोति भवतां सोऽयम्विभुःस्ताच्छ्रिये // 1 // 91 // मूलपाठः–त ए णं तीसे तिसलाए खत्तियाणीए--अयमेयारूवे--जाव संकप्पे समुप्पज्जित्था-हडे मे से गम्भे ? मडे मे से गब्भे ? चुए मे से गम्भे ? गलिए मे से गब्भे? एस मे गब्भेपुचि एयइ, एयाणि नो एयइ त्ति कटु ओहयमणसंकप्पा चिंतासोगसागरं संपविट्ठा करयलपल्हत्थमुही अट्टज्झाणोवगया भूमीगयदिठिया क्षियायइ // // व्याख्या // ततो भगवतो निश्चलावस्थानन्तरम्-तस्याः-त्रिशलाक्षत्रियाण्याः-अयं पतपः-यावत् अध्यवसायः समुत्पन्नः-एवम्भूतः सङ्कल्पो जात इति कोऽसौ सङ्कल्पः-इत्याह-हृतः-मे मदीयः-गर्भः सः-केनचित् देवादिना किम् अथवा-सः-मे गर्भः किं मृतः-अथवा-सः-मे गर्भ:-कि च्युतः-परिभ्रष्ट इति अथवा स मे गर्भः किम् गलितः अर्थात्द्रवीभूय क्षरितः-यस्मात् हेतोः-एष मे गर्भः पूर्वम् एजते-कम्पमानोऽभवत्-इदानीञ्च तथा नैजते न कम्पते इति-इति कृत्वा इति कारणात् उपहतमनःसङ्कल्पा मलिनीभूतचित्ता सती चिन्ताशोकसागरे प्रविष्टा (गर्भहरणरूपचिन्तादुःखसमुद्रे निमग्नेति) अतएव करतलपर्यस्तमुखी अर्थात् पाणितलकृतानना सती अतएव आर्तध्यानोपगता तथा भूमिगतदृष्टिका-ध्यायति अथ तस्मिन् समये सा त्रिशलादेवी यद् ध्यायतिस्म तदेव लिख्यते // CCCEBSISCCCIENCE