________________ श्री कल्पमुकावल्यां सिद्धार्थ गृहे | धनवृद्धि वर्णनम् / वट्ठाण भवणगिहेसु वा, सिन्निक्खित्ताई चिठ्ठन्ति ताई सिध्वत्थरायभवणं सिसाहरन्ति // 88 // ___ व्याख्या-यतः प्रभृति-यस्मादिनात्-आरभ्य श्रमणो भगवान् महावीरः तस्मिन् राजकुले संहृतः-देवेनेति-ततः प्रभृति तहिनादारभ्य, बहवः वैश्रमण कुण्डधारिणः-अर्थात्-कुबेराज्ञाधारकाः-तियक्-जृम्भकाः-देवाः-अर्थात्-तिर्यग्लोकवासिजृम्भकजातीयदेवाः, शक्रवचनेन-अर्थात्-शक्रेण-पुरा कुबेराय प्रोक्तम् ततः-कुबेरेण तिर्यगलोकवासिबहुजृम्भकनामदेवेभ्यः-उक्तम् कुबेरद्वारा शक्राशया जम्भकदेवाः-इति अथ ते जम्भकदेवाः-यानि इमानि वक्ष्यमाणस्वरुपाणि पुरापुराणानि-चिरन्तननिक्षिप्तानि, महानिधानानि भवन्ति तद्यथा-तानि निधानानि कीदृशानि इल्याह प्रहीणस्वामिकानि अर्थात् स्वल्पीभूताधिपत्यानि पुनः प्रहीणसेक्तृकानि-अत्र-सेक्ता उपरि धन क्षेप्ताज्ञेयः स च स्वामी-एव भवति पुनः प्रहीणगोत्रागाराणि- एतद् धनसंबन्धीनि गोत्राणि अगाराणि च विरलीभूतानीतिभावः-पुनः-उच्छिन्नस्वामिकानि (सर्वथा नष्टस्वामिकानि, पुनः-उच्छिन्नसेक्तकाणि-पुनः-उच्छिन्नगोत्रागाराणि-अथ तानि च महानिधानानि केषु केषु स्थानेषु वर्तन्ते इत्याह ग्रामाकरनगरखेटखटमडम्बद्रोणमुखपत्तनाश्रमसम्वाहसन्निवेशेषु-इति तत्र ग्रामाः करवन्तः यत्र नृपादिभिः करो गृह्यते तथा आसमन्तात् कण्टकावरोधाश्च-ग्रामा उच्यन्ते-तेषु ग्रामेषु लोहताम्रारकूटादिधातूनां यत्रउत्पत्तयो भवन्ति-ते (आकराः इति कथ्यन्ते-(नगराणि) यत्र करो न गृह्यते तथा यत्र सुचारु राजमार्गाः दुर्गाश्च तानि नगराणि बोध्यानि (खेटकानि) यत्रासमन्तात् धूलिमहाप्राकाराः सन्ति तानि खेटकानि / कर्वटानि (सर्वथा धर्मादिसुखरहितानि कुनगराणीति) मडम्बानि येषाम्-चतुर्युदिक्षु क्रोशद्वयपरिमितासु भूमिषु ग्रामोपरिणामाः स्युः तानि मडम्बानि बोध्यानि, द्रोणमुखानि-यत्र-जलमार्गस्तथा स्थलमार्गश्च भवति तानि द्रोणमुखानि-पत्तनानि-जलस्थलमार्गयो मध्ये यत्रएकोऽपि-मार्ग स्यात् तानि पत्तनानि-तत्र पत्तनेषु यानि तीर्थस्थानानि तापसस्थानानि वा सन्ति ते आश्रमाः-बोध्याःसम्बाहाः-यत्र समभूमिषु कृषकाः कृर्षि कृत्वा रक्षार्थ धान्यं स्थापयन्ति-अर्थात्-यत्र केषामपि प्रवेशो न भवेत्-ते सम्वाहाः प्रोच्यन्ते सन्निवेशाः-यत्र-सार्थवाहानां समूहः-तथा कटकादीनाम् उत्तरणम् ते सन्निवेशाः-अर्थात्-ग्रामाकर 125 //