________________ श्री कल्पमुः कावल्यां स्वप्नशास्त्र वर्णनं // 120 // // व्याख्या // सोऽपि च दारकः-उन्मुक्तबालभावः सन् यदाऽष्टवार्षिको भविष्यति-तदाऽस्य सकलं विज्ञानं परिणमिष्यति-तदनु यौवनावस्थामनुप्राप्तः सन् तदा दाने-तथा च स्वीकृतकार्यनिर्वाहे शूरो भविष्यति तथा रणसङ्गामे परमण्डलाक्रमणसमर्थः सन् वीरो भविष्यति तथा विस्तीर्णविपुलवाहनः-अर्थात् बहुलसेनः-बहुलवाहनश्च भविष्यन्ति / चतुरत्नस्वामी, एवम्विधो दारकश्चक्रवर्ती राज्यस्वामी भविष्यति / तथा जिनो वा त्रैलोक्यनायकःधर्मवरचातुरन्तचक्रवर्ती-भविष्यति अर्थात् यथा च चक्रवर्ती राजा-चतुःसमुद्रवर्तिनीं सकलां महीं साधयति ततोऽन्यनृपापेक्षया-अधिकायते एवम् भो राजन् तव पुत्रोऽपि-अन्यधर्म मार्गप्रवर्तकापेक्षया-अतिशयविज्ञानवान-जिनो भविष्यति वा प्रभूतोत्तमधर्मचक्रेण नरकादिचतुर्गतीनामन्तकरो जिनो भविष्यति-इति तात्पर्यम् तत्र जिनत्वे चतुर्दशानां-अपि स्वप्नानां पृथक् पृथक् इमानि फलानि // चतुर्दन्त महाहस्ति दर्शनाज्जिनराडू भुवि // चतुर्धा श्रेयसे धर्म कथयिष्यति देहिनाम् // 1 // दर्शनावृषभस्यैष महतोऽतिलसद्युतेः // क्षेत्रेऽत्र भरते रम्ये बोधिवीजञ्च वस्यति // 2 // सिंहस्य दर्शनादेष रक्षयिष्यति सर्वतः॥ भव्याटवीं भज्यमानां दुष्ट कामादि हस्तिभिः // 3 // रमाया दर्शनादत्त्वा दानं वार्षिक संज्ञकम् // भोक्ष्यते तनयस्तेऽत्र तीर्थंकर रमाम्बराम् // 4 // कूजषट्पद राजन्त्या मालाया अपि दर्शनात // त्रिलोकीमस्तक झुर्यों भविष्यति जिनो विभुः॥५॥ पूर्णेन्दु दर्शनादेष दिगन्त कीर्तिराजितः // कुवलये' मुदं राजन् महतीं खलु दास्यति // 6 // 1 समस्तपृथिव्याम्-चन्द्रपक्षे-कुमुदसमुदाये // // 120 //