SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमु कावल्यां // व्याख्या // एवं निश्चयेन हे देवानुप्रिय-हे सिद्धार्थराजन् ? अस्माकं स्वप्नशास्त्रे द्विचत्वारिंशत्-स्वप्नाः कथिताः-तत्र च हे देवानुप्रिय ? अर्हन्मातरो वा चक्रवर्ति मातरो वा अर्हति वा चक्रधरे वा गर्भ व्युत्क्रामति-प्रविशति सति एतेषां त्रिंशन्महास्वप्नानां मध्ये-इमान्-चतुर्दश महास्वप्नान्-दृष्टवा प्रतिवुध्यन्ते जाग्रति // 73 // ते जहागयवसह गाहा // 74 // स्वप्नशास्त्र वर्णनं // 117 // ॥ते चत्वारिंशत्स्वमाश्च / / इत्थम् // गन्धर्वः 1 राक्षसः 2 भूतः 3 पिशाचः 4 बुकसः 5 महिषः 6 सर्पः 7 कपिः 8 कण्टकवृक्षः 9 नदी 10 खजूरः 11 श्मशानं 12 उष्ट्रः 13 गर्दभः 14 मार्जारः 15 श्वानः 16 दौस्थ्यं 17 कूपः 18 सङ्गीतम् 19 अग्नि प्रवेशादि द्वीजः 20 रक्षा 21 अस्थि 22 वमनं 23 नमनं 24 कुस्त्री 25 चर्मदर्शनं 26 भङ्गः 27 भूमिमज्जनं 28 तारापतन 29 सूर्यचन्द्रस्फोटनं 30 कल्पान्तकालसम्बन्धि महावायुः 31 रुधिरं 32 पाषाणः 33 वामनः 34 कलहः 35 वक्रदृष्टिः 36 जलशोषणं 37 भूमिकम्पः 38 ग्रहयुध्ध 39 निर्धातः 40 महातपः 41 दुर्वाक्य 42 // एते द्विचत्वारिंशत् स्वप्नाः सामान्यफलाः प्रोक्ताः तथा त्रिशन्महास्वप्नाः उत्तमफलदायकाः प्रोक्तास्तथा अर्हन्-१ बौध्धः 2 कृष्णः 3 शम्भूः 4 ब्रह्मा 5 स्कन्दः 6 गणेशः 7 लक्ष्मीः 8 गौरी 9 राजा 10 हस्ती 11 गौः 12 वृषभः 13 चन्द्रः 14 सूर्यः 15 विमानं 16 गृहम् 17 अग्निः 18 स्वर्गः 19 समुद्रः 20 सरोवरं 21 सिंहः 22 रत्नराशिः 23 पर्वतः 24 ध्वजः 25 जलपरिपूर्णो घटः 26 पुरीषं 27 मांसः 28 मत्स्यः 29 कल्पवृक्षः 30 इति त्रिशन्महास्वप्नाः-सर्वमिलने सर्वेऽपि द्वासप्ततिः स्वप्नाः प्रोक्ताःते च श्री वर्द्धमानसूरिकृतस्वप्नप्रदीपग्रन्थानुसारतो ज्ञेयाः // // 117 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy