________________ श्री कल्पमुकावल्यां पंचशत सुभट दृष्टांतः // 110 // मित्तं शिरोधृतश्वेतसर्षपहरितालिका-इति-पवम्विधाः सन्तः-स्वकेभ्यः स्वकेभ्यो गेहेभ्यो निर्गच्छन्ति-निर्गत्य च क्षत्रियकुण्डग्रामस्य नगरस्य मध्यं मध्येन सिद्धार्थस्य राज्ञो-भवनवरावतंसकप्रतिद्वारं-मुकुटवत्-श्रेष्ठभवनद्वारमितिमूलद्वारमिति तत्रैव-उपागच्छन्ति-उपागत्य च भवनवरावतंसकप्रतिद्वारे-एकत्र मिलन्ति च सर्वे ऐक्यभाजिनो भवन्तीति भावः / तथाहि ऐक्यमन्तरा न च कार्यसिद्धिः-यतःसर्वेऽपि यत्र नेतारः, सर्वे पण्डितमानिनः / सर्वे महत्वमिच्छन्ति तदवृन्दमवसीदति // ॥अत्र दृष्टान्तः / पञ्चशत सुभटानामिति // एकदा च कचित्काचित्सुभटानामितस्ततः॥ आगत्य मिलिता स्वैरं पथि पञ्चशती मिथः॥१॥ सर्वे ते सुभटाः किश्च परस्पर विरोधिनः। अहंयद' स्तथा चासन्-विवेक पथवर्जिताः॥२॥ जीविकार्थश्च ते सर्वे सुभटा मन्दबुद्धयः॥ सविधेः कस्यचित्य राज्ञः सन्नीतिशालिनः॥३॥ अमात्यवचनाद्राज्ञा तत्परीक्षणहेतवे। शय्यका प्रेषिता किश्च वरनिर्मिति सुन्दरा // 4 // अहमिन्द्राश्च ते सर्वे पूज्यापूज्यबहिमुखाः॥ शय्याशयनमित्तमका: कलहम्परम् // 5 // विवादे सति चैकेन प्रोक्तं तत्र च सद्धिया // मध्ये कार्या च शय्यैषासर्वेषामिति मे मतम् // 6 // तदभिमुखमात्मीयान् कृत्वा पादांश्च सर्वतः / / शयितव्यं तदा नैव विवादोऽत्र विविच्यताम् // 7 // ओमित्युक्त्वा च ते सर्वे शेरतेस्म यथा सुखम् ॥राज्ञाऽपि प्रेषिता स्तत्र स्वकीय गृढमानवाः // 8 // 1 अमिमानिनः - // 11 //