________________ स्वप्नदर्शन श्रो कल्पमु कावल्या // :105 // पृच्छादि. मालावर्णविलेपनोऽर्थात्पवित्रमालाकुमादिचन्दनविलेपनः पुनराविद्धमणिसुवर्णः-अर्थात्तत्तत्स्थानेषु परिघृतमणिसुवर्ण भूषणः पुनः कल्पितहाराव हारत्रिसरिकप्रलंबमानप्रालंबकटिसूत्रकृतशोभः (यथास्थानस्थापितहारदिरचितशोभः) पुनः पिनद्धौवेयः-(कण्ठीकृताभरण इति )पुनरङ्गलीयकललितचाभरणः-(हस्ताङ्गुलिधृतमुद्रिकाभिः केशशोभावर्द्धकपुष्पालकारेश्वशोभित इति-पुनर्वरकटकत्रुटिकस्तम्भितभुजः(प्रधानकङ्कणकेयूरस्तब्धभुजः) पुनरधिकरूपसश्रीकः पुनःकुण्डलोद्योति. ताननः-(कर्णस्थापितकुण्डलशोभया रश्चितमुखः) पुनर्मुकुटदीप्तशिरास्तथाहारावस्तृतसुकृतरतिकवक्षाः-(वक्षस्थलस्थितहारेण पश्यत्सर्वजनानन्ददायीति ) पुनर्मुद्रिकापिंगलाङ्गुलिकः पुना प्रालम्ब प्रलम्बमानसुकृतपटोत्तरासङ्गोदीर्घलम्बायमान वस्त्रेण कृतोत्तरासङ्गः पुनर्नानामणिकनकरत्नविमलमहाहनिपुणोपचितदेदीप्यमानविरचितसुश्लिष्ठविशिष्टोलष्टाविद्धवीरवलयः-अर्थात् (निपुणशिल्पिरचितैतद्गुणविशिष्टवीरत्वदर्पसूचककङ्कणधारीति ) अत्र वीरवलयधारणेनायमभिप्रायो यदि कश्चिद्धरायामपरो वीरः स्या त्तहि माञ्जित्वा मोचयत्विमानि वीरवलयानि-बुध्येति परिहितवीरवलय इति ) अथवा किम्बहूक्तेन कोदशो राजा-अलवृतो विभूषितः कइव कल्पवृक्ष इव-यथा च कल्पपादपः पत्रादिभिरलतः पुष्पादिभिश्च शोभितः-एवं राजाऽपि मुकुटादिभिरलङ्कतो वस्त्रादिभिर्विभूषितश्च-इत्थं नरेन्द्रोऽतिशोभितोऽस्ति केन कैः-छत्रेण चामरैश्च कीदृशेन छत्रेण कथम्भूतै श्चामरै श्चेत्याह-कोरिटवृक्षमाल्यदाम्ना-एतद्वृक्ष पुष्पमालोपशोभितेन छत्रेण तथोध्धूयमानैः राजोपरि सेवकादिभिः परिचाल्यमानै श्वेतवरचामरैः पुनः कीदृशो नृपो मङ्गलजयशब्दकृतालोकः-नृपदर्शन समये लोकैर्जयजयशब्दः क्रियमाणोऽस्ति पुनः-अनेक गणनायक, दण्डनायक, राजराजेश्वर, तलवर, माण्डविक, कौटुम्बिक, मन्त्रि, महामन्त्रि, गणक, दौवारिका,-मात्य, चेट, पीठमद, नागर, निगम, श्रेष्ठि, सेनापति, सार्थवाह, दूत, सन्धिपालैःअर्थादेतै राज्याधिकारिभिः सार्ड सम्परिवृत्तः सन् राजा मज्जनगृहान्निर्गच्छति तदा कीदृशोऽयं नृपः शोभते इत्युपमानेनाह पूर्व धवलमहामेघनिर्गत इव-पुनर्ग्रहगणदीप्यमानऋक्षतारागणानां मध्ये शशीव राजाजनैरुत्प्रेक्ष्यते साक्षाच्चन्द्र एवायं नृगोऽतरत्र पूर्वोक्त पुरुषैः परिवृतो नृपः प्रियदर्शनो भवति पुनः कीदृशः प्रजापालकः पुनर्नरेन्द्रः पुनर्नरवृषभः // 105 //