________________ स्वप्नदर्शन पृच्छादि. श्री कल्पमुक रभ्यङ्गनञ्चकार कीदृशशतपाकतैलैरित्याह नूतननूतनौषधप्रक्षेपेण शतवारं यानि पच्यन्ते वा शतं सौवर्णा यत्र लगन्ति इति क्तावल्यां तैःशतपाकैस्तथा सहस्रपाकैस्तथा सुगन्धवरतैलादिभित्रादि शब्देन कपूरपानीयादि ग्राह्याणि-पुनःप्रीणनीयैः-शरीरान्तर रसरुधिरादि धातुसमताकारिभिः पुनः र्दीपनीयै रग्निवर्द्धकैः पुनर्मदनीयैः कामवृद्धिकारिभिः पुनर्वृहणीयैः-शरीरावयव॥१०३॥ मांसपुष्टिकारकैः पुनर्दपणीये विशेषबलदायकैः पुनः सर्वेन्द्रियगात्र प्रहलादनीयैः पीनादिहेतोरानन्ददायकैस्तैलैः सम्यक् सेवकादिभिः-अभ्यङ्गितः सन् तिलचर्मणि तैलाभ्यंगानन्तरम् वक्ष्यमाण पुरुषैः सम्वाहितः सन्-व्यपगतपरिश्रमो बभूवनृपः कीदृशैः पुरुषैनिपुणैः सर्वोपायकुशलैः पुनः प्रतिपूर्णपाणिपादसुकुमालकोमलतलैः अतिस्निग्धहस्तचरणतलोपेतैः पुनरभ्यङ्गनपरिमर्दनोद्वलनकरणगुणनिर्मातैः तैलादिमर्दनविधिषुनिष्णातैः पुनः-छेकैः कुशलैः पुनः-दक्षैः पुनः प्रष्ठैःमर्दनकर्मणिप्रधानैः पुनः कुशलैः-पुनमें धाविभिः कर्तव्याकर्तव्यविचारसमथैः पुनर्जितपरिश्रमै रतिकार्यकरणेऽपि सर्वथाश्रमरहितैः-ईदृशैः पुरुषैः रभ्यङ्किगतः सन् परिश्रमरहितो बभूव पुनः सम्बाधन क्रियया सम्वाहितः सन् कथम्भूतया सम्बाधन क्रियया-अस्थिसुखकारिण्या-पुनर्मा ससुखकारिण्या पुनस्त्वक सुखकारिण्या पुना रोम सुखकारिण्या इत्येवञ्चतुप्रकारया सुख परिकर्मणया-संबाधनया सम्वाहितः सन्-तथाऽपगत परिश्रमः सन् राजा अट्टनशालायाः प्रतिनिष्कामति // 61 // मूलपाठः-अट्टणसालाओ पडि निक्खमित्ता जेणेव मज्जणघरे तेणेव-उवागच्छइ, उवागच्छित्ता मज्जणघरं अणुपविसइ, अणुपविसित्ता समुत्तजालाकुलाभिरामे विचितमणिरयणकुट्टिमतले रमणिज्जे न्हाणमंडवंसि नाणामणिरयगभत्तिचितंसि न्हाणपीहंसि सुहनिसण्णे, पुप्फोदएहि अगंधोदएहि अ उण्होदएहि अ सुहोदएहि अ सुद्धोदएहि अ, कल्लाणकरणयवरमजणविहीए मजिए, तत्थ कोउअसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हलमुकुमालगंधकासाइअलूहिअंगे अहय मुमहग्धदूसरयणसुसंवुडे सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावण्णगविले // 103 //