________________ श्री कल्पमुक्तावल्यां स्वप्नदर्शन फल पृच्छादि // 102 // जपापुष्पराशिहिंगुलनिकरातिरेक राजमान सदृशे एतेषां रक्तवर्णत्वेन-सूर्ये उपमानम् अर्थादेतत्सदृशे सूर्ये रक्ते सति पुनः कमलाकर खण्ड विकाशके-कमल समुदाय विकाशनशीले पुनरित्थम्भूते सूर्येऽभ्युदिते सति पुनः सहस्ररश्मौ सहस्र क्विरणे पुनर्दिनकरे पुनस्तेजसा दीप्यमाने तथा तस्य सूर्यस्य किरणैरन्धकारे विगते सति तथा बालातपकुङ्कुमेन जीवलोके खचिते व्याप्ते सति-शयनात्-अभ्युत्तिष्ठति सिद्धार्थभूपः // 10 // मूलपाठः-सयणिज्जाओ अब्भुद्वित्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहित्ता जेणेव अट्टणसाला तेणेव उवागच्छइ उवागच्छित्ता-अट्टणसालं अणुपविसइ, अणुपविसित्ता अणेगवायामजोग्गवग्गणवामद्दणमलजुद्धकरणेहिं संते परिस्संते, सयपागसहस्सपागेहिं सुगंधवरतिल्लमाइएहिं पीणणिज्जहिं दीवणिज्जेहिं मयणिज्जेहिं विहणिज्जेहिं दप्पणिज्जेहिं सविंदिगायपल्हायणिज्जेहिं अभंगिए समाणे, तिल्लचम्मंसि निउणेहि पडिपुन्नपाणिपायासुकुमालकोमलतलेहि अब्भंगग परिमहणुव्वलणकरणगुणनिम्माएहिं छेएहिं दक्खेहिं पठेहिं कुसलेहिं मेहावीहिं जियपरिस्समेहिं पुरिसेहिं अठिसुहाए मंससुहाए तया सुहाए रोममुहाए चउव्विहाए मुहपरिकमणाए संवाहणाए संवाहिए समाणे, अवगयपरिस्समे अट्टणसालाओ पडिनिक्खमइ पडिनिक्खमित्ता // 61 // // व्याख्या // स सिद्धार्थः शयनीयादुत्थाय तदनु पादपीठादवतरति प्रत्यवतीयं च यत्रैवाहनशाला ( परिश्रमव्यायामशालाऽऽसीत्तत्रैवोपागच्छति-उपागत्य चाट्टनशालामनुप्रविशति-अनुप्रविश्य च-नानाविधव्यायामादीनि चक्रेतदेवाह अनेक व्यायामयोग्या नानाविधपरिश्रमयोग्या-तत्राभ्यासः (खुरली तु श्रमो योग्याभ्यास इति वचनात्-वल्गनव्यामर्दनमल्लयुध्धकरणैः तत्र-वल्गनं मिथः-एकस्योपरि कलया पतनम्-व्यामर्दनम् परस्परबाहाद्यङ्गमोटनक्रियामलयुद्धानि प्रसिद्धानि करणानि मल्लशास्त्रकथिता अङ्गप्रत्यङ्गभिनयाः-एतै व्यायामैः परिश्रान्तः सन्-ततःशतपाकादितैलै