SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमु. गर्भपरावर्तः क्तावल्यां // 79 // CHEHE easeDETA // व्याख्या // तस्मिन्काले तस्मिन्समये श्रमणो भगवान् महावीरो योऽसौं वर्षाणां वर्षाकालसम्बन्धि तृतीयो यो मासः पञ्चमः पक्षः कोऽसौ-आह-आश्विन मासस्य कृष्णपक्ष:-आश्विनकृष्णपक्षस्य त्रयोदशी पक्षः पश्चाधरात्रिरिति तस्यां यशोत्यहोरात्रेषु-अतिक्रान्तेषु व्यशीतितमस्याहोरात्रस्य अन्तरकाले रात्रिलक्षणे काले वर्तमाने हितेन स्वस्येन्द्रस्य च हितकारिणा तथाऽनुकम्पकेन भगवतो भक्तेन हरिणैगमेषिणा देवेन शक्रवचनसन्दिष्टेन प्रोषितेनेति ब्राह्मण कुण्डग्रामान्नगरात्-कोडालसगोत्रीय ऋषभदत्त ब्राह्मणस्य जालन्धरगोत्रीय भार्या देवानन्दा ब्राह्यण्याः कुक्षितः क्षत्रियकुण्डग्रामे नगरे ज्ञातजातीयक्षत्रियाणां मध्ये काश्यपगोत्रोत्पन्न सिद्धार्थ क्षत्रियस्य वासिष्ट गोत्रोत्पन्न भार्या त्रिशलाक्षत्रियाण्या मध्यरात्रकालसमये उत्तराफाल्गुनी नक्षत्रे चन्द्रेण सम्बन्ध मुपागते पीडा रहित यथा स्यात्तथाऽव्याबाधेन दिव्यप्रभावेण कुक्षि विषये गर्भतया संहृतो मुक्तः // 30 // // उत्प्रेक्षते कविरत्र // शार्दल:-सिद्धार्थावनिराजवंशसुगृहमावेशकाले वरे मौहूर्तन्त्विव यापयंश्च भगवान् रात्रिन्दिवानि क्षणम् // प्रोवास द्वयमास विंशतिदिनान भूदेवरम्यालये सोऽयम्वीर जिनोऽस्तुविश्वमहितो वो भूयसे श्रेयसे // 1 // मूलपाठः-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तिन्नाणोवगए आविहोत्था साहरिज्जिसामि त्ति जाणइ, साहरिज्जमाणे नो जाणइ साहरिए मित्ति जाणइ // // व्याख्या // तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरस्त्रिभिनिरुपगतः सहितोऽभवत् तथा संहरिष्यमाणो मामितः संहरिष्यति-इति जानाति संहियमाणः संहरणसमये न जानाति संहृतोऽस्मि-इति च जानाति कथं युक्तमित्याह दृष्टान्तेन RH // 7
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy