SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुजा गर्भपरावर्तः तं पि यणे देवाणंदाए माहणीए जालन्धर गुत्ताए / कुच्छिसि गम्भत्ताए साहरइ / साहरित्ता जामेव दिसि पाउब्भूए क्तावल्यां IM तामेव दिसि पडिगए // 28 // // 73 // // व्याख्या // पर्यादाय-गृहीत्वा द्वितीयवारमपि वैक्रियसमुद्घातेन समुद्धन्ति प्रयत्नविशेष कृत्वा उत्तर वैक्रिय भवधारणीया पेक्षयाऽन्यदित्यर्थः-ईदृशं रूपं विकुर्वति करोति तथा कृत्वा तया-उत्कृष्टया त्वरया चपलया चण्डया-अपरगतिजयनशीलया उद्भूतया प्रचन्डपवनोद्धृतधूमादेरिव शीघ्रया-क्वचिच्छेकया-इत्यपि पाठः-देवयोग्यया-ईदृश्या देवगत्या-अतिगच्छन्-अधस्तादुत्तरन् तिर्थक्-असंखेयानां द्विप समुद्राणां मध्यं मध्येन मध्य भागेन यत्रैव जम्बूद्वीपे भरतक्षेत्रे यत्रैव ब्राह्मणकुण्डनगरे यत्रैव-ऋषभदत्तस्य ब्राह्मणस्य गृहं यत्रैव देवानंदा ब्राह्मणी अस्ति तत्रैव उपागच्छति उपागत्य चआलोके दर्शन मात्रे श्रमणस्य भगवतो महावीरस्य प्रणामकरोति प्रणामकृत्वा च देवानंदाया ब्राह्मण्याः सपरिवाराया अवस्वापिनी निद्रां ददाति तां दत्वाऽशुचीन् पुद्गलानपहरति तथा कृत्वा च शुभान्-पवित्रान् पुद्गलान् प्रक्षिपति-प्रक्षिप्य च-अनुजानात्वाज्ञां ददातु मह्यं भगवानितिकृत्वेत्युक्त्वा श्रमण भगवन्तं महावीरं व्यावाधारहितमव्याबाधेन दिव्येन प्रभावेण करतल सम्पुटे गृहाति गृहीत्वा च यत्रैव क्षत्रियकुण्डग्रामनगरं यत्रैव सिद्धार्थक्षत्रियस्य गृहं यत्रैव त्रिशला क्षत्रियाणी विद्यते तत्रैवोपागच्छति-त्रिशलायाः क्षत्रियाण्याः सपरिवार सहिताया अवस्वापिनी निद्रां ददाति दत्वा चाशुभान् पुद्गलान पहरति-अपहृत्य च शुभान् पुद्गलान् प्रतिक्षिपति-प्रक्षिप्य च श्रमणं भगवन्तं महावीरं व्याबाधारहितमव्याबाधेन दिव्येन प्रभावेण त्रिशलायाः क्षत्रियाण्याः कुक्षौ गर्भतया मुञ्चति-योऽपि तस्या स्त्रिशलायाः क्षत्रियाण्या गर्भः पुत्रीरूपस्तमपि गर्भ जालन्धरगोत्रदेवानन्दा ब्राह्मण्याः कुक्षौं गर्भतया मुञ्चति मुक्त्वा च यस्या एव दिशः प्रादुर्भूतः-आगतस्तस्यामेव दिशि पश्चाद्गतः॥२८॥ मूलपाठः-ताए उक्किद्वाए तुरियाए चवलाए चंडाए जयणाए उद्धुयाए सिग्धाए दिव्वाए देवगइए तिरिअमसंखि // 73 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy