________________ 4.SIASMILAISII AIII III ISFIE जयति नृप! तदीया विश्वसम्भावनीया भुवनजयपताका रूपरेखा शलाका // 23 // उत्कल्लोलं त्रिवलिवलये लन्धराज्यं नितम्बे प्राप्तौनत्यं कुचकलशयोर्गण्डयोर्मुक्तनिद्रम / पाणिद्वन्द्वे कृतकिशलयं केशपाशे विशवंचिन्तातीतं नयनयुगले यौवनं नाथ! तस्याः॥२४॥ समानधर्माः समशीलवेषाः सहक्कुलास्तुल्यवयोविलासाः। सख्यः सदा सतशतानि तस्याः नरेन्द्रकन्याः सविधं भजन्ते // 25 // आजन्मतः सर्वजगद्वधूनां जयैकराज्ये विहिताभिषेका। . सा लञ्छनच्छमकृतं विधाता ललाटपट्टे तिलकं विभर्ति / // 26 // दृष्टं दृष्टं नवनवमिव प्रेक्ष्यते यत्तदङ्गं तस्मादस्मन्मनसि घटते नृतं शाक्यवाक्यम् / दृश्याश्यं ननु तदुदरं येन तेन प्रकामं सम्यग् जैनी जयति सदसद्वादविद्याजयश्रीः // 27 / / यां विलोक्य मनुजस्य जायते जीवितं च सफलं स्वजन्म च / सा नरेन्द्रतनया नयान्विता मङ्गलं शुभतनो! तनोतु ते // 28 // इति श्रीमाणिक्यदेवसुरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे दशमः सर्गः // 10 // ISSIFIIEIIIIII