________________ II IIIIII VIII II तत्र चन्द्रप्रभ नाम्ना धाम्ना च जगदीश्वरम् / दृष्टवानष्टकर्मघमष्टमं परमेश्वरम् // 18 // ततोऽहं दण्डकारण्यं प्रविष्टः कष्टनिर्गमम् / दुष्टश्वापदसङ्कीर्ण गर्नागिरिगुहाकुलम् // 19 // पूर्व हि दण्डकारण्यं दण्डकस्य महीपतेः / कुम्भकारकटं नाम्ना नगरं तद् बभूव च // 20 // दण्डकप्रतिबोधाय स्कन्दकः समुपाययौ / आचार्यः पूर्वसंबन्धी कानने नवतत्त्ववित् // 21 // तं धर्मनिरतं पश्यन् तद्भक्तिप्रवणं नृपम् / न सेहे नृपतेस्तस्य पुरोधाः पालकाभिधः // 22 // कदाचित् कायचिन्तार्थ सशिष्ये प्रस्थिते मुनौ / तदाश्रमे स मायावी भुवि शस्त्राण्यधापयत् // 23 // जगाद च नृपं गत्वा राजन् ! भयमुपस्थितम् / स्कन्दको मुनिवेषोऽयमाततायी तवागतः // 24 // शालकस्ते च राज्यार्थी भवन्तं हन्तुमिच्छति / समं महारथैः शिष्यैर्गुप्तशस्त्रोऽस्ति दृश्यताम् // 25 // तथा कृते नरेन्द्रेण दण्डकेनाविवेकिना / पालकः स्कन्दकस्यैव वधार्थ प्रहितः पुनः // 26 // सोऽपि यत्रेषु निक्षिप्य मुनीननपराधिनः / तिलवत् पीडयामास पालकः पापकर्मकृत् // 27 // तेपि सर्वे दिवं जग्मुः क्षमामाजस्तपोधनाः / शिष्यस्याथ शिशोरथे पालकं स्कन्दकोऽवदत् // 28 // पूर्व निक्षिप मां यचे यथा ते पूर्यते रतिः / एनं नैवोत्सहे द्रष्टुं पीड्यमानं दृशोः पुरः // 29 // मर्मच्छेदं विदन् तेन स तं प्रत्युत तर्जयन् / बालकं पीडयामास पालकस्तस्य पश्यतः // 30 // ततस्तरस्विनः सूरेः स्कन्दकस्य मनस्विनः। तस्य कोपः स कोऽप्यासीद् यस्य स्वल्पमिदं जगत् // 31 // II + III FIIEI HIROI.