________________ 4-15I AIIA III AIII परिश्रमसमाकुलः समजनिष्ट देहे क्षणं बभूव सुतरां पुनर्मनसि सुस्थितः पार्थिवः तत्रावतीय तुरगादुरगारिवेगाल्लक्ष्मीसखं परिजनं परिपालयन्तम् / तं मेजिरे भुजगराजभुजं तदानीं भूमीभुजं नवभुजिष्यसमाः समीराः उत्फुल्लपल्लवितनिम्बकदम्बजम्बूजम्बीरकीरकटुकार्जुनकेतकीकाः / तस्याददुः श्रमशमं वपुषः समन्तादुत्तालबालकदलीपवना बनान्ताः // 38 // तस्मै दर्सदमुदारमयमयूरहारीतचातकचकोरकपिञ्जलानि / आसनकिन्नरनिरन्तरगीतगानध्यानकतानहरिणानि वनस्थलानि // 39 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे तृतीयः सर्गः // 3 // प्रथमे उत्पत्तिस्कन्धे चतुर्थः सर्गः। MEII II FII II तत्र भिक्षाचरः कोऽपि कौपीनावरणः कृशः / विद्वान् वैदेशिकः प्राप वल्लरीनद्धमूर्द्धजः // 1 // विभ्राणः पाणिना यष्टिं वहन् कण्ठेन मृन्मणीन् / दधानः कम्बलं स्कन्धे पात्रं च क्रमुकत्वचम् // 2 // स विलोक्य विशांपत्युर्विशेषसुभगं वपुः / चेतसा चिन्तयाञ्चक्रे विचारचतुरश्चिरम्