________________ प्रश्मस्कन्धे कु श्री नलस्य विलास II सर्गः 2 आदितः कथनमेव मज्जातं हेतिशब्दमथ के कृतवन्तः / श्रद्दधानहृदि वीरवरः सन् यत्र वै वितरणे च रणे च // 54 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमउत्पत्तिस्कन्धे प्रथमः सर्गः // 1 // प्रथमे उत्पत्तिस्कन्धे द्वितीयः सर्गः / II A FII III-IIIEIIM स दिग्विजयमुद्दामं चके शैशवशेषवान् / विदधे चाक्षयं कोशं कुशलः कोशलेश्वरः // 1 // ददौ दयितमुद्दामं दानं सततमर्थिनाम् / चकार प्रतिपूर्वाणां दानं सततमर्थिनाम् // 2 // दूरं दर्शितवान् वीरः प्रतिपत्तिं सदा सताम् / प्रतिपाद्य विपक्षाणां प्रतिपत्तिं सदासताम् // 3 // विहाय देशमादेशं बलं मुक्त्वा च कम्बलम् / चरणं च रणं मुक्त्वा भेजिरे यस्य वैरिणः // 4 // स्वतन्त्रः कृतवान् क्रीडां न्यस्ततन्त्रःस मन्त्रिषु / सौभाग्यसुन्दरः श्रीमान् राजा भोगपुरन्दरः // 5 // पुरोपवनवल्लीषु वारनारीवृतः स्वयम् / कदाचिदाचरत्युच्चैः पुष्पावचयविभ्रमम् // 6 // इत्थं वीरविलासेन साम्राज्यं तस्य भुञ्जतः / सेवावसरवेदीव प्रावृद्कालः समाययौ // 7 // आसीद् गर्जति पर्जन्ये षड्जस्वरविराविणाम् / तूर्यत्रयमयी रम्या क्रीडा कापि कलापिनाम् // 8 // III ASIA III 4 III III III