SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 4.SI ASHISHI AISHABHA येनात्मरूपसम्पत्त्या सुपर्वाणोऽपि निजिताः / पार्थिवेषु वभवेकः स पृथ्व्यां केवलं नल: // 45 // अथवा यः सहस्राक्षः शतमन्युः शतक्रतुः / वज्रपाणिः सुनासीरो मघवा मेघवाहनः // 46 // यः कल्पवृक्षलक्षाणि कामधेनुशतानि च / चिन्तामणिसहस्राणि प्रसादेन प्रयच्छति // 47 // सोऽपि यस्य प्रियाप्रेमपरमानं जिघत्सतः। अचिन्तितातिथीभावप्रतिपत्तिं प्रपत्रवान् ॥४८॥(त्रिमिविशेषकम्) सर्वस्वं ददताऽपि येन समरे दत्तं न पृष्ठं द्विषां कोलीनाद् विभयांचभूव भुवने धीरेषु धुर्योऽपि यः। या प्राज्ञोऽपि परापवादविषये मुर्खेषु मुख्योऽभवत् येनोच्चैःशिरसापि कीर्तिसमये चक्रे विननं शिरः // 49 // गङ्गीधैरिव चन्द्रभानुभिरिव क्षीराब्धिपूरैरिव प्रालेयैरिव कैरवैरिव बृहन्मुक्ताकलापैरिव / प्रेसद्धिर्विभवेन यस्य परितः स्फीतैर्यशोभिर्जगत् पूतं द्योतितमाततं शिशिरितं संवासितं भूषितम् // 50 // यस्मादमोघमहसः कनकोत्करेषु प्राप्तेषु मार्गणगणैर्गणनातिगेषु / ' उद्भूतभूरितरकालमहाभरेण ब्रीडानतानन इवाजनि कल्पवृक्षः अधर्मा प्रस्वेदस्तुहिनरहितः कम्पमहिमा विना दीक्षां मौनं निरुपधिविधिःस्तम्भविभवः / अखेदो गात्राणामनिशमवसादश्च सुतरामरीणां स्त्रीणां च प्रभवति यमालोक्य बलिनम् // 52 // अरिनिकरकरप्रौढपर्यपीठे मदकलकरिकर्णप्रेरितेनेव येन / निरवधिनिरवद्यं निर्भयं निर्विकल्पं रणभुवि विजयश्री.रवीरेण भुक्ता MISSIFIRIT ISI FII RISHI III
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy