________________ EII III AISFIlla III AIII VIII Ile सापि कान्ता मया दिष्टा तेन मन्त्रेण तत्क्षणम् / मुष्टिदानं कलत्रस्य क्षेत्रपालः सुनिर्ममे // 51 // कर्मणा तेन सुप्रीतः कलत्रभैरवोऽभवत् / गणप्रस्तारभङ्गेन गरुत्मानिव पिङ्गले // 52 // स च मन्त्रस्त्वया नीतः कुण्डिनाध्वनि मन्मुखात् / कृत्वा तद् विषयं द्यूतं देव! दिव्यदिवानिशम् // 53 // मुष्टितच जवाजानन् राजन् ! स्वस्य परस्य च / केनापि जेष्यसे तत्वं सर्वदानविशारदः // 54 // पुष्कर लीलया जित्वा निःकलकेन वर्त्मना। भज दिग्विजयश्रान्तः कुलराज्यं कुलोद्वहम् // 55 // इति तत्ककुत्स्थकुलजस्य वाङ्मयं नृपतिनिपीय परमामृतं रहः / उदतिष्ठदष्टकुलशैलपीठिकाकुरलीखलैकतममल्लपुङ्गवः तस्याज्ञया नवदुरोदरमल्लयुद्धक्रीडारसव्यसनिनः शशिशुभ्रकीः / मन्था बभूवुरभितः क्षुभितं सृजन्तश्चित्तं जनस्य रचनागुणगौरवेण // 57 // सिंहासनस्थितनिरन्तर भूमिपालव्यालोल मौलिमणितारकितान्तरीक्षा / दूरं दुरोदरसभा शुशुभे शुभाभिः संभाविता विततवीतकलाकथाभिः // 58 // अविरलवरबन्दिवृन्दविद्यं कविकुलकेलिकलाकलापलिप्तम् / सदसदशिवकृत्तदाशु भेजे भुजविजितारिबलो नलो नरेन्द्रः // 59 // उच्चारुचारुभिरभङ्गुरशीललीलरामन्त्रितः सपदि वासवदततैः / II ATHEIISI AEIIIFile IASII