________________ SIII-II - HIDIIP III || इत्युक्त्वा तरलतुरङ्गयानदानप्रीतौ तौ विततवितीर्णवित्तवस्त्रौ / विप्रेन्द्रौ कृतदयितामनः प्रवेशः स्वं देशं प्रति विससर्ज भूमिपालः // 40 // तत्र निर्गतवति द्विजयुग्मे तिग्मभानुरिव दुःसहदीप्तिः / किं किलात्र भवितेति नितान्तं भूभृतां पतिरचिन्तयदन्तः // 41 // नगरगिरिसरिद्रुमौघसर्ग कथमपि मार्गमतीत्य दाक्षिणात्यम् / पुनरधिगतकुण्डिनौ द्विजौ तौ नृपतिगृहं प्रतिजग्मतुः क्षणेन // 42 // तत्रासख्यविदेशदेशसरसं कुब्जस्य योग तथा तास्तास्तस्य कथाः स विभ्रमभरस्तत् तत् कलाकौशलम् / तद् दानं तमुदन्तमव्यतिकरं भीमस्य राज्ञः पुरो देव्याश्चापि दमखसुः क्रमगतं ताभ्यां बभाषे रहः // 43 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने षष्ठे स्कन्धे षष्ठः सर्गः // 6 // . षष्ठे स्कन्धे सप्तमः सर्गः / HIARI बाजाISISle तमथाकर्ण्य वृत्तान्तमद्भुतं भीमभूपतिः / इदमेतदिति ज्ञातुं प्राज्ञोऽपि हि न चक्षमे उवाच दमयन्ती च देवी विस्मितमानसा / पूर्व न नाम नो राज्ये कुब्जोऽभूत् कोऽपि तादृशः // 2 //