________________ अहो ! पुनः कथं तस्या दर्शयिष्याम्यहं मुखम् / किं नाम तद् दिनं भावि यत्र सा मे मिलिष्यति // 41 // नूनं चेत् सुगमा देवी तद्वन्धुभ्यस्त्रपा पुनः / मयि तत्र गते खिन्नाः किं वक्ष्यन्ति दमादयः? // 42 // अधुनैव निजं वृत्तं कथयाम्यनयोः पुरः / नष्टराज्योऽथवाद्यापि स्पष्टीभूय करोमि किम् ? // 43 // यद् वा तदेव मे राज्यं यद् देव्या सह सङ्गमः / केन संभाविता ह्यासीत् जीवन्ती प्राणवल्लभा // 44 // तद् गत्वा दुःखदीनां तां कान्तां संभावयाम्यहम् / अनित्ये जीवलोकेऽस्मिन् दुर्लभः खलु सङ्गमः।। 45 // तां विहाय वियुक्तोऽहं जीविष्यामि चिरं कियत् / परित्यज्य नदी नीतो महामत्स्य इव स्थले // 46 // स्पष्टीभतस्य मे सर्व वशवर्ति महीतलम् / किमशक्तिर्ममाद्यापि जेतुं सर्वान् महीभुजः // 47 // ततस्त्यागात् परं वृत्तं तस्याः श्रुत्वाऽनयोर्मुखात् / चिट्ठविदितमात्मानं करिष्यामि तदाशये // 48 // उच्चस्तरां स्वमथ कुब्जमयोऽपि मेने नीचैस्तरां विहरति म तयोः समीपे / भूयस्तरां विततराज्य इवाजनिष्ट प्राणेश्वरीकुशलजीवितवार्तया सः // 49 // सायन्तनावसरसीमनि तौ च तेने भूमीभुजः सदसि दर्शनमानपूर्वम् / आज्ञापितं तदतुलं नलभीमपुत्र्योश्चित्रस्थितं चरितमुच्चरतः म सम्यक् // 50 // इति श्रीमाणिक्यदेवमूरिकृते नलायने षष्ठे स्कन्धे पञ्चमः सर्गः॥ 5 // IIASIATIATIIIIIIIISEle