________________ IIRISHI // 67 // // 68 // // 69 // अद्य प्रभृति मे यत्नो जामातुः प्राप्तिकारणे / दशदिग्विजयं कर्तुं चरप्रेषणकर्मणि लब्धया हि त्वया पुत्रि ! भर्तुर्व्यसनदीनया / सहस्रगुण एवाद्य मम तद्दर्शनोद्यमः विसृज विसृज दुःखं दीनता कीदृशी ते भुजविजयिनरेन्द्रा भ्रातरो हि त्वदीयाः। भुवनवलयवर्ती दुर्लभो नास्ति भर्ता विरम विरम मोहात् सौमनस्यं भजस्व इति विपुलमतीनामत्युदारद्युतीनामतिललितमतीनामत्युदयस्थितीनाम् / सततमपरिहीणः क्षत्रियाणां धुरीणः सुमुखि ! भवदधीनस्तावकीनः स भर्ती प्रतिजनपदमेषा जायते वीरचर्या सनगरगिरिगर्त वीक्ष्यते विश्वमेतत् / अयमधिगत एव श्रीनलो वैरसेनिः कुरु मनसि पितु, भाषितं पुत्रि ! सम्यक् इति वचनमुदीर्य धैर्ययुक्तं प्रमुदितमाशु विधाय चित्तमस्याः। नरपतिरुदतिष्ठदिष्टधर्मा सपदि यथाविहितक्रियानिमित्तम् इति श्रीमाणिक्यदेवसूरिकृते नलायने षष्ठे स्कन्धे प्रथमः सर्गः // 1 // // 71 // SHI-III-ISISIS // 72 //