________________ = AII 4.HIA NEILA SII A ISIT WISINHIle ततस्तथेति प्रतिपन्नवत्या मातृष्वसुर्वेश्मनि सा वसन्ती / सुनन्दया तत्सुतयाय॑माणा निनाय निगूढतया दिनानि // 77 // तत् तत् तस्या नृपकुलकलाकौशलं शीलयन्ती तत् सौभाग्यं तमुपशममप्यन्वहं शोभयन्ती / अत्याश्चर्यग्रहिलहृदया तत्र मातृष्वसुः सा पुत्री हस्तात् क्षणमपि न तां भीमपुत्रीं मुमोच // 78 // प्रियप्रवृत्तिव्यतिषङ्गहेतवे श्रमार्त्तवैदेशिकदानदायिनी। निरन्तरं सा विरहव्रतस्थिता नवेन्दुमुवीक्ष्य जगाद कर्हि चित् // 79 // अहो ! दशाया मम वैपरीत्याद् वर्णैरपि प्रापि विपर्ययः किम् / राकापि कारापदवीं विभाः धवस्मृतिर्याति वधस्मृतित्वम् // 8 // तदिति कार्तिकतो नवमं गलद् बहलबाष्पतया दधतीव सा / सपदि मासमुमासमवेभवामितमुदीय दधे दृढतां पुनः // 81 // एतत् किमप्यनवमं नवमङ्गलाङ्कं चक्रे तदत्र वटगच्छनभोमृगाङ्कः / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धः प्रपञ्चचतुरोऽजनि पश्चमोऽयम् // 82 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे एकविंशतितमः सर्गः // 21 // समाप्तोऽयं पञ्चमः स्कन्धः / FIIA III NISHITA TRI SATHII A LISTRIKE =