SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ // 55 // पशमे स्कन्धे सर्गः 20 // 139 // IGATII AIIIIII मम हि स्वगुरुं नन्तुं रत्नशैलं यियासतः / अत्राजनि गतिभ्रंशस्तीर्थोल्लचनसंभवः त्वया धाराध्यमानस्य विम्बस्यास्य महौजसः। प्रसादादि विना चिहं न मे संभावनाभवत् पतितस्तदहं व्योन्नः पक्षिवत् छिन्नपक्षतिः। न शक्नोम्यधुना गन्तुं प्रायश्चित्तं कृतं विना तदिदं मम कल्याणि ! मुखवैवर्यकारणम् / प्रसनमुखरागोऽस्मि भूयस्त्वद्दर्शनात् पुनः इयं यावद् यथा युक्त्या मूर्तिराराधिता त्वया / तावत् तथा मयाराध्या नास्ति मे हितमन्यथा अयं हि भगवान् शान्तिराश्लिष्टो मुक्तिरामया / तत् कदाचिददद्रीचो भवन्ति ननु रामया अमुं विभाव्य निःसङ्ग विस्मरन्तः स्मरं ततः / प्रयतन्ते न विद्वांसो विभवाय भवाय च मुनिमित्युक्तवन्तं तं नत्वाबोचद् विदर्भजा / गृहाण भगवद्विम्बं कुरुष्व स्वमनीषितम् कृतमादिष्टमादिष्टं यत् सर्व गुरुणा पुरा / सांप्रतं सांप्रतं गन्तुं केवलं कुण्डिनं मम / संवदन्ति हि ते वाचस्तास्ता विद्याधराश्रयाः / अस्ति सा केशिनी नाम्ना सखी विद्याधरी मम पश्यामि तामहं नित्यं येष्टां हि भगिनीमिव / मत्पुत्रं पाति निर्दिष्टा साद्य तिष्ठति कुण्डिने शतशः सा मया पृष्टा सेवायाः कारणं पुरा / केवलं समये सर्वमाख्यास्यामीति भाषते कार्यकाले च सा दत्तान् वरान् राज्ञाथवा मया / अत्यर्थ प्रार्थ्यमाणापि न्यासीकृत्यैव तिष्ठति तदत्र कारणं मन्ये भगवंस्तव भाषितम् / अन्यथा भूस्पृशां सेवां कुर्याद् विधाधरी कथम् दमयन्त्यग्रे चारणश्रमणेण कथितं निजमुख वैवर्ण्यकारणम्। // 59 // // 6 // // 61 // // 62 // IIIIIIIIIIIII // 64 // // 67 // // 68 // // 139 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy